SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवन्त्रिपरिष्कारसहितायाम् । २८७ खटा । शूद्रवर्जनं किम् ? शूद्रा । आदित्येव ! आखुः ॥ पाककर्णपर्णवालान्तात् ॥ ५५ ॥ पाकाद्यन्ताया जातेः स्त्रियां ङीः स्यात् । ओदनपाकी, आखुकर्णी, मुद्रपर्णी, गोवाली । जातेरित्येव ? बहुपाका यवागूः ॥ असत्काण्डप्रान्तशतकाचः पुष्पात् ॥ ५६ ॥ सदादिवर्जेभ्यः परो यः पुष्पशब्दस्तदन्ताज्जातेः स्त्रियां ङीः स्यात् । अवयवसंस्थानस्य ब्राह्मणादिसर्वसाधारणतयाकृतिव्यङ्गयत्वाभावात् । अतो लक्षणान्तरं लिझानाञ्च न सर्वभाक् सकृदाख्यातनिह्येति । अत्राऽत्रिलिङ्गत्वे सति सकृदुपदेशव्यङ्ग्यत्वं तदर्थः । अत्रिलिङ्गत्वं देवदत्तादेरप्यस्ति, अतः सकृदित्यादि । सकृदुपदेशव्यङ्ग्यत्वं शुक्लादावस्ति, अतोऽत्रिलिङ्गत्वे सतीत्युक्तम् , तत्र ब्राह्मणत्वमेकत्र ब्राह्मणेऽयं ब्राह्मण इत्युपदिष्टे तत्तत्पित्रादिषु सुप्रहम् । वृषलत्वञ्चैकत्रोपदिष्टे तदपत्यतत्सहोदरादौ सुग्रहम् । एतल्लक्षणाभिप्रायेणोदाहृतं वृषलीति । नन्वेतदपि नाडायनी कठीत्यादावनुगतसंस्थानव्यङ्गयत्वाभावादत्रि. लिङ्गत्वाभावाचाव्याप्तम् , अत उक्तं गोत्रश्च चरणैः सहेति, गोत्रमत्र शास्त्रीय ग्राह्यम्, अपत्याधिकारादन्यत्र लौकिकं गोत्रम् , चरणः शाखाऽध्ये ता, तथा चापत्यप्रत्ययान्तः शाखाध्ये तृवाची च शब्दो जातिकार्य लभत इत्यर्थः । मुण्डगुणयोगान्मुण्डा, यान्त इति स्वरसहितो यकारोऽन्ते ग्राह्यः, तस्याप्यन्तत्वं साक्षात् श्रवणात् , तेन वतण्डस्यापत्यं स्त्री वातण्डीत्यत्रापत्यं पौत्राद्यर्थे यञि तस्य लोपे स्थानिवद्भावेन यान्तलक्षणो ङीप्रतिषेधो न भवति ॥ पाकश्च कर्णश्च पर्णश्च वालतदन्तस्तस्मात् । जातेरिति वर्तते । ओदनस्येव पाको यस्याः सा, आखोः कर्ण इव यस्याः सा, मुद्गस्येव पर्णानि यस्याः सा। गौरिव वाला यस्याः सा। संज्ञा एता ओषधिजातीनाम् । नित्यस्त्रीविषयत्वात्पूर्वेणाप्राप्ते इदं सूत्रम् ॥ सच्च काण्डश्च प्रान्तश्च शतश्चैकश्वाञ्च च, न सत्काण्डप्रान्तशतैकाश्च तस्मात् , पुष्पात्। जातेरित्यपि सम्बध्यते। शङ्खवत्पुष्पाणि यस्याः
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy