SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवरिपरिष्कारसहितायाम् । २८५ पत्नी, ग्रामपतिः । सादेरिति किम् ? पतिरियम् , ग्रामस्य पतिरियम् ।। सपत्न्यादौ ।। ५० ॥ एषु पतिशब्दास्त्रियां ङीः स्यात् , अन्तस्य न च । सपत्नी, एकपत्नी ॥ ऊढायाम् ॥ ५१ ॥ पत्युः परिणीतायां स्त्रियां ङीः स्यात्, न् चान्तस्य । पत्नी, वृषलस्य पत्नी ॥ पाणिगृहीतीति ।। ५२ ।। पाणिगृहीतीतिप्रकाराः शब्दा ऊढायां स्त्रियां ड्यन्ता निपात्यन्ते । पाणिगृहीती, करगृहीती । ऊढायामित्येव ? पाणिगृहीताऽन्या ॥ पतिवन्यन्तर्वत्न्यो भार्यागभिण्योः ॥ ५३ ॥ भार्या अविधवा स्त्री, तस्यां गर्भिण्याञ्च यथासङ्ख्यमेतौ वेन पत्यन्तत्वादतिप्रसङ्गः स्यात्तद्वारणाय सादेरित्युक्तम् । आदि. शब्दः पूर्वावयवपर इत्याशयेन प्रत्युदाहरति, ग्रामस्य पतिरियमिति । नात्र ग्रामस्येति पदं पूर्वावयवभूतमैकपद्याभावात् । पातीति पतिरिति क्रियाशब्दस्य त्रिलिङ्गत्वादत्र स्त्रीत्वम् ॥ सपत्न्यादिर्यस्यासौ सपन्यादिस्तस्मिन् । समानः पतिर्यस्याः सा सपत्नी, एक एव पतिर्यस्याः सा एकपत्नी । समुदायनिपातनं समानस्य सभावार्थं पुंवद्भावनिषेधार्थञ्च । अत्र समानादिस्वामिकस्त्रीविशेषस्यैव रूढ्या वोधनार्थ डीनकार विशिष्टोच्चारणम् , तथा च समानः पतिर्यस्या दास्या भूमेर्वेति विग्रहे सपतिरित्येव । तथैकस्यैव तत्तत्पत्नीविशिष्टतया भेदमारोप्य समानता विज्ञेया, तेन मुख्यसादृश्यवत्पतिकासु न तथा प्रयोग इष्यते । पुनर्विधानानवेति निवृत्तम् ॥ ऊढायाम् । पत्युन इति सूत्रं वर्तते । याऽग्निसाक्षिपूर्वकेण परिणीता सेह गृह्यते । नामग्रहणे तद. न्तविधिश्च नाश्रीयते, अतो केवलात्पत्युः परिणीतायां स्त्रियां डीरित्यर्थः । पत्युर्भार्या पत्नी॥ पाणिगृहीती, इति । इति शब्दः प्रकारार्थः, ऊढायामित्यपि सम्बध्यते । पाणिर्गृहीतोऽस्याः सा इति निपातनम् । पाणिर्गहीतोऽनया सा पाणिगृहीताऽपरिणीता इत्यर्थः ॥ पतिवत्नी चान्तर्वत्नी च, भार्या च गर्भिणी च तयोः । पतिरस्या अस्तीति पति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy