SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ २८४ . सिद्धहेमलघुवृत्तौ। [ द्वितीयाध्यायस्य मिता, दन्तजाता, दन्तप्रतिपन्ना ॥ अनाच्छादजात्यादेवा ॥ ४७ ॥ आच्छादवर्जा या जातिस्तदवयवात्कृतादिवर्जात् क्तान्ताद्वहुव्रीहेः स्त्रियां ङीर्वा स्यात् । शाङ्गरजम्धी, शाङ्गरजग्धा । आच्छादवर्जनं किम् ? वस्त्रछन्ना । जात्यादेरिति किम् ! मासयाता । अकृताद्यन्तादित्येव ! कुण्डकृता ॥ पत्युनः ॥ ४८ ॥ पत्यन्ताबहुव्रीहेः स्त्रियां ङीर्वा स्यात् , तद्योगेऽन्तस्य न च । दृढपत्नी, दृढपतिः । मुख्यादित्येव ? बहुस्थूलपतिः पुरी ॥ सादेः ।। ४९ ।। सपूर्वपदात्पत्यन्तास्त्रियां ङीर्वा स्यात् , तद्योगेऽन्तस्य न् च । ग्रामस्य पतिः, ग्रामकालसुस्वादेरिति शङ्खो रुशब्दयोः पूर्वनिपातः । दन्ताः कृता यस्याः सा दन्तकृता, एवमप्रेऽपि । अत्र कृतादिवर्जनान्न कीः ॥ नाच्छा. दोऽनाच्छादः, अनाच्छादश्चासौ जातिश्च, साऽऽदिरवयवो यस्य तस्मान्नवा। शाङ्गरो जग्धो यया सा शाङ्गरजग्धी। वस्त्रं छन्नं यया सा वस्त्रछन्ना । मासो यातो यस्याः सा मासयाता । कुण्डं कृतं यया सा कुण्डकृता ॥ पत्युः पञ्चमी, नः प्रथमा । बहुव्रीहे रित्यनुवर्तते, ततश्च तदन्तविधिस्तद्योगे ङीयोगे, ङीयोगे एवान्तस्य नकारो भवति । दृढः पतिर्यस्याः सा दृढपत्नी। स्थूलाः पतयो यासां ताः स्थूलपतयः, पत्युन इति नविकल्पनात् । नादेशाभावे बहवः स्थूलपतयो यस्यां सा बहुस्थूलपतिः पुरी, अत्र हि पत्यन्तो बहुव्रीहिर्मुख्यो न भवति, पुनर्बहुत्रीहिकरणात् । यस्तु मुख्यः स न पत्यन्तः किन्तु स्थूलपत्यन्तः । मुख्यादिति विशेषणं बहुव्रीहेर्न तु पत्युः, दृढपत्नीत्यादेरसिद्ध्यापत्तेः ।। आदिना सहितः सादिस्तस्मात् । पत्युन इति वर्तते । यद्यत्रापि बहुव्रीहिसमासोऽभिप्रेतः स्यात्तर्हि पूर्वसूत्रेणैव सिद्ध्या पुनर्वचनं व्यर्थ स्यादतोऽत्र बहुव्रीहेरित्यस्य निवृत्तिः । सादेरिति किमिति, पत्युरिति नाम्नो विशेषणेन तदन्तलाभात् पत्यन्तादित्येवास्तु, किं सादेहणेनेति प्रश्नाशयः, पतिरियमिति, केवलपतिशब्दस्यापि व्यपदेशिवद्भा
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy