________________
चतुर्थपादः ]
अवचूरिपरिष्कारसहितायाम् ।
"
न्ताददन्तात्स्त्रियां ङीः स्यात् । अश्वकीती, मनसाक्रीती । आदेरिति किम् ? अश्वेन क्रीता । तादल्पे ॥। ४५ ।। कान्तात्करणादेरल्पेऽर्थे स्त्रियां ङीः स्यात् । अनविलिप्ती द्यौः, अल्पाभ्रेत्यर्थः । अल्प इति किम् ? चन्दनानुलिप्ता स्त्री ॥ स्वाङ्गादेरकृतमितजातप्रतिपन्नाइहु. व्रीहेः || ४६ ॥ स्वाङ्गादेः कृतादिवर्जात् कान्ताद्बहुव्रीहेः स्त्रियां ङीः स्यात् । शङ्खभिन्नी, ऊरुभिन्नी । कृतादिवर्जनं किम् ? दन्तकृता, दन्तअश्वकीती | विभक्त्युपत्तेः पूर्वमेव कृदन्तेन समासः । मनसाक्रीती, तृतीयाया अलुप् । अनेन सूत्रेणादन्तात्क्रीतात्करणादेर्डीविधिरुक्तः, करणस्य चाऽऽद्यवयवत्वं समासं विना न स्यात्, विभक्त्यन्तेन च क्रीतेत्यनेन समासः क्रियते तदा क्रीतस्यादन्तत्वं न सम्भवति, अन्तरङ्गत्वाद्विभक्त्युत्पत्तेः प्रागेवाऽऽपः प्राप्तेः एवञ्च सत्यदन्तादित्युक्तिस्यादतः सा ज्ञापयति, 'गतिकारकङस्युक्तानां विभक्तयन्तानामेव कृदन्तैर्विभक्त्युत्पत्तेः प्रागेव समास इति न्यायघटक कार काणां कृदन्तैरविभक्त्यन्तैरेव समास इत्यंशं करणादिति वक्तव्ये आदिग्रहणान्नामरूपान्यपदार्थे ऽवयववाच्यादिशब्देन बहुत्री हिस्तेनाश्वेन क्रीतेति वाक्ये न भवति । न ह्यत्र करणं क्रीतान्तस्य नाम्न आदिरवयवो भवति, ऐकपद्याभावात् ॥ क्तात्, अल्पे । करणादेरित्यनुवर्तते। अल्पैरभ्रैर्लिप्यते स्मेति, पूर्ववत्समासः । चन्दनानुलिप्तेति. अनस्पेन चन्दनेन लिप्तेत्यर्थः । अल्पत्वं समुदायोपाधिः, यद्यपि पूर्वपदार्थस्याभ्राणामेवाल्पत्वं गम्यते, तथापि तदल्पत्वे सति तद्विलेपनस्याप्यल्पत्वमवश्यं भवतीति समुदायोपाधित्वमल्पत्वस्य सङ्गच्छते ।। स्वस्याङ्गं स्वाङ्गम्, तदादिरवयवो यस्य तस्मात् । कृतश्च मितश्च जातश्च प्रतिपन्नश्च तत्, न कृतमितजातप्रतिपन्नं तस्मात्, बहुव्रीहेः पञ्चमी । क्तादिति वर्तते । भिद्यते स्म भिन्नः शङ्खौ भिन्नौ यस्याः सा शङ्खभिन्नी, भिन्नौ ऊरू यस्याः सा ऊरुभिन्नी, जाति
1
:
"
२८३