________________
२८२
सिद्धद्देमलघुवृत्त
[ द्वितीयाध्यायस्य'
लाटा, सुपार्श्वा ॥ नखमुखादनानि ॥ ४० ॥ सहादिवर्ज पूर्वपदाभ्यां स्वाङ्गाभ्यामाभ्यामसंज्ञायामेव स्त्रियां ङीर्वा स्यात् । शूर्पनखी, शूर्पनखा । चन्द्रमुखी, चन्द्रमुखा । अनाम्नीति किम् ? शूर्पणखा, कालमुखा ॥ पुच्छात् ॥ ४१ ॥ सहादिवर्जपूर्वपदात्स्वाङ्गात् पुच्छास्त्रियां ङीर्वा स्यात् । दीर्घपुच्छी, दीर्घपुच्छा ॥ कबरमणिविषशराः ||१२|| एतत्पूर्वपदात्पुच्छात्त्रियां ङीर्नित्यं स्यात् । कबरपुच्छी, मणिपुच्छी, विषपुच्छी, शरपुच्छी ॥ पक्षाच्चोपमानादेः ॥ ४३ ॥ उपमानपूर्वात्पक्षात्पुच्छाच्च स्त्रियां ङीः स्यात् । उलूकपक्षी शाला, उलूकपुच्छी सेना ॥ क्रीतात्करणादेः ॥ ४४ ॥ करणादेः क्रीताएवम । शोभने पार्श्वे यस्याः सा सुपार्श्वा, सुललाटेति बहुस्वरवतां नासिकोदराभ्यामेव भावादत्र न । सुपार्श्वेति संयोगोपान्त्येभ्य ओष्ठादिभ्य एव भावादत्र न || नखश्च मुखञ्च तस्मात्, न नाम अनाम तस्मिन् । अनुवृत्तिः पूर्ववत् । शूर्पनखी, शूर्पाकारा नखा यस्याः सा, चन्द्रवन्मुखमस्याः सा चन्द्रमुखी । शूर्पणखा, संज्ञावाचित्वे तु न ङीः, पूर्वपदस्थान्नाम्न्यग इति णत्वम्, रावणस्य भगिनी । कालमुखा तु यमभगिनी || पुच्छात् । पूर्ववदनुवर्तनम् । दीर्घं पुच्छं यस्याः सा दीर्घपुच्छी || कवरश्च मणिश्च विषञ्च शरश्च ते आदयो यस्य तस्मात् । पुच्छादित्यनुवर्तते । पूर्वपदत्वेन कवरादीनामुपादानादसहनजित्यादि निवृत्तम् । पूर्वेण सिद्धे पुनर्विधानं नित्यार्थम् । कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरीत्यादि ॥ पक्षात्, च, उपमीयतेऽनेनेत्युपमा, उपमा एव उपमानं तदाऽऽदिर्यस्य तस्मात्, प्रसिद्धसाधर्म्यादप्रसिद्धविषये येन ज्ञानमुपजन्यत इत्युपमा । चशब्देन पुच्छशब्दस्य ग्रहणम् । उलूकस्य पक्षावित्र पक्षौ यस्याः सा उलूकपक्षी शाला, एत्रम। पूर्वसूत्रेण सहास्यैकयोगाकरणात्स्वाङ्गादिति निवृत्तम् ॥ क्रीतात् , करणमादिवयवो यस्य स करणादिस्तस्मात् । अश्वेन क्रीयते स्म
1