________________
चतुर्थपाद: । अवचूरिपरिष्कारसहितायाम् । २८१ केशा । क्रोडादिवर्जनं किम् ! कल्याणक्रोडा, बहुगुदा, दीर्घवाला । स्वाङ्गादिति किम् ! बहुशोफा, बहुज्ञाना, बहुयवा ॥ नासिकोदरोष्ठजवादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् ।। ३९ ।। सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीर्वा स्यात् । तुङ्गनासिकी, तुङ्गना. सिका। कृशोदरी, कृशोदरा। बिम्बोष्ठी, बिम्बोष्ठा । दीर्घजङ्घी, दीर्घजङ्घा । समदन्ती, समदन्ता। चारुकर्णी, चारुकर्णा । तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा । मृद्वनी, मृद्वङ्गा । सुगात्री, सुगात्रा । सुकण्ठी, सुकण्ठा । पूर्वेण सिद्धे नियमार्थमिदम् । तेन बहुस्वरसंयोगोपान्तेभ्योऽन्येभ्यो मा भूत् , सुलन । रूपादियोगो मूर्तिस्तद्योगान्मूर्तं पुद्गलद्रव्यं तदपि स्वाङ्गम , तेन बहुज्ञाना इत्यादौ न ज्ञानस्यामूर्तत्वात् । प्राणिस्थं स्वाङ्गं तेन दीर्घमुखा शाला इत्यादौ न । च्युतञ्च प्राणिनस्तदिति लक्षणान्तरम् । अविकारादिलक्षणयुक्तं प्राणिनच्युतमपि स्वाङ्गं भवतीति तदर्थः, यथा बहुकेशी बहुकेशा रध्या । तन्निभश्च प्रतिमा दिध्विति चापरं लक्षणम् । प्राणी यथा प्राण्यङ्गेन सम्बद्धो भवति तथाऽप्राणी प्राण्यङ्गसजातीयेन वस्तुना सम्बद्धश्चेत् अप्राणिनोऽप्यवयवः स्वाङ्गपदग्राह्यो भवति, तेन पृथुमुखी पृथुमुखा प्रतिमा इत्यादि भवति ॥ नासिका च उदरश्चोष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गश्चाङ्गञ्च गात्रञ्च कण्ठश्च तस्मात् । असहनविद्यमानपूर्वात्स्वाङ्गादिति पदद्वयमनुवर्तते । पूर्वेण सिद्धे नियमार्थमिदम् । बहुस्वरेषु नासिकोदराभ्यामेव । संयोगोपान्त्येष्वोष्ठादिभ्य एव ङीर्वा नान्येभ्य इति । तुङ्गा नासिका यस्याः सा तुङ्गनासिकी, कृशमुदरं यस्याः सा कृशोदरी, बिम्ब इव ओष्ठौ यस्याः सा बिम्बोष्ठी, दीर्घा जङ्घा यस्याः सा दीर्घजङ्घी, समा दन्ता यस्याः सा समदन्ती, चारू कर्णौ यस्याः सा चारुकर्णी, तीक्ष्णे शृङ्गे यस्याः सा तीक्ष्णशृङ्गी, मृदु अङ्गं यस्याः सा मृद्वङ्गी,
३६.