________________
२८०
सिद्धहेमलघुवृत्तौ [ द्वितीयाध्यायस्य तद्योगे तो न च । श्येनी, श्येता । एनी, एता । हरिणी, हरिता । भरिणी, भरिता । रोहिणी, रोहिता। वर्णादिति किम् ? श्येता, एता ॥ कः पलितासितात् ॥ ३७॥ त इति चेति चानुवर्चते, आभ्यां स्त्रियां ङीर्वा स्यात्, तद्योगे तः क्नः । पलिक्नी, पलिता । असिक्नी, असिता ॥ असहनविद्यमानपूर्वपदात्स्वाङ्गादक्रोडादिभ्यः ॥ ३८ ॥ सहादिवर्जपूर्वपदं यत्स्वानं तदन्तात्क्रोडादिवर्जाददन्तास्त्रियां ङीर्वा स्यात् । पीनस्तनी, पीनस्तना। अतिकेशी, अति. केशा माला। सहादिवर्जनं किम् ? सहकेशा, अकेशा, विद्यमानविकल्पः प्रधानत्वात्प्रत्ययविधिनैव सम्बध्यते न त्वप्रधानेन नवि. धानेन । श्येनी शुभ्रा, एनी कर्बुरा शुभ्रा वा, हरिणी नीला, भरिणी पाटला धूसरा घृतवर्णा वा, रोहिणी रक्ता। चकारो ङीर्यदा भवति तदैव नकारोऽपीति सूचनाय ॥ कः प्रथमा, पलितश्चासितश्च तस्मात् । त इति चेति चानुवर्तते । पलितशब्दः केशरोगविषये वर्णे, असितशब्दः सितप्रतिपक्षे वर्णे, तदैव ङीप्रत्ययः कादेशश्च, कचि. दन्यत्रापि, वृद्धा पलिक्नी । 'असिनी स्यादवृद्धा या प्रेष्यान्तःपुरचारिणी' त्यमरः ॥ सहश्च नञ् च विद्यमानश्च, न सहनविद्य. मानम् , असहनविद्यमानं पूर्वपदं यस्य तत्तस्मात् , स्वश्च तदङ्गश्च तस्मात् , क्रोड आदिषान्ते, न कोडादयोऽक्रोडादयस्तेभ्यः। पीनौ स्तनौ यस्याः सा पीनस्तनी, केशानतिक्रान्ताऽतिकेशी, सह केशर्वर्तते सा सहकेशा, न विद्यन्ते केशा यस्याः साऽकेशा, विद्यमानाः केशा यस्याः सा विद्यमानकेशा । कल्याणी क्रोडा यस्याः सा, क्रोडशब्दः स्त्री क्लीबलिङ्गः। एवं सर्वत्र बहुव्रीहिः । स्वाङ्गादिति, स्वाङ्गं त्रिधा, "अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते, च्युतश्च प्राणिनस्तत्तन्निभश्च प्रतिमादिषु" । अविकारो वातादिजन्यशोफादिविकारभिन्नस्तेन बहुशोफा इत्यादौ न । अद्रवं स्वाङ्गं भवति, तेन बहुकफा इत्यादौ