SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः ] अवन्त्रिपरिष्कारसहितायाम् । २७९ विभुः । स्वरादिति किम् ? पाण्डुर्भूमिः । गुणादिति किम् ? आखुः स्त्री। अखरोरिति किम् ? खरुरियम् ॥ श्येतैतहरितभरितरोहिताद्वर्णात्तो नश्च ।। ३६ ॥ एभ्यो वर्णवाचिभ्यः स्त्रियां कीर्वा स्यात् , अतो विशेषणान्तरमुक्तमाधेय इति, उत्पाद्य इत्यर्थः । अक्रियाजोऽनुत्पाद्य इत्यर्थः । तथा च नित्यानित्यवृत्तिपदार्थविभाजकोपाधिमत्त्वं तदर्थः । गुणत्वं हि अनित्ये पाकजरूपादौ नित्ये आकाशमहत्त्वादिषु च वर्तते, तद्वान्शुक्लादिरेव । क्रियात्वं तु न नित्यवृत्तिः, कर्मणोऽनित्यैकरूपत्वात् । एवमप्यवयविद्रव्येऽवयवेषु वर्तमानेऽवयवसंयोगनिवृत्तौ निवर्तमाने हस्तपादादिषु भिन्नजातीयेषु दृश्यमाने नित्यानित्यवृत्तिनि अतिव्याप्तिस्तद्वयुदासाय सत्त्वप्रकृतिरित्युक्तम् , अद्रव्यस्वभाव इत्यर्थः । द्रव्याधिकरणकोत्पादविनाशशालित्वे सति जातिभिन्नत्वे सति द्रव्यभिन्नत्वे सति नित्यानित्यवृत्तिधर्मवत्त्वमिति वा तदर्थः । यद्वा सत्त्वे निविशतेऽपैतीति संज्ञानिरासः । पृथग्जातिषु दृश्यत इत्यनेन सर्वनामनिरासः । आधेय इत्यनेन सङ्ख्याशब्दो जातिशब्दश्च निरस्तः । अक्रियाज इत्यनेन कृदन्तनिरासः । असत्त्वप्रकृतिरित्यनेन समस्ततद्धितान्तयोनिरासः । अधिकं तत्रैव दृष्टव्यम् । पाण्डुरिति, नात्र स्वरादेकव्यञ्जनव्यवहित उः, व्यञ्जनद्वयेन व्यवधानात् । उकारात्पूर्व वर्णद्वयसं. योगेन न भवितव्यमिति भावः । खरुः, क्रूरा मूर्खा दर्पिष्टा श्वेता वा स्त्री खरुः, खरुः पतिवरा कन्येति वा । पाणिग्रहणोत्कण्ठाभिधायित्वाद्गुणवचनोऽयम् । अत्र स्वरादुत इति वचनं येन नाव्यवधानं तेन व्यवहितेऽपि स्यादिति न्यायं सूचयति । यत्र येन वर्णादिनावश्यं व्यवधानं स्यान्न त्वव्यवधानं तत्र तद्व्यवधानेऽपि तत्कार्य स्यादेवेति तदर्थः । स्वराद्यव्यवधानेनोकारस्य गुणवचनशब्देषु कुत्राप्यदर्शनात्स्वरादुत इत्युक्तेर्व्यर्थ. ताप्रसङ्गेन अयं न्यायोऽवतरति ॥ श्येतश्चतश्च हरितश्च भररितश्च रोहितश्च तस्माद्वर्णात् , तः षष्ठी, नः प्रथमा, च ॥ अत्र नवेति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy