SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सिद्धमलघुवृत्तौ । [ द्वितीयाध्यायस्य स्त्रियां ङीर्वा स्यात् । भूमी, भूमिः । धूली, धूलिः । अत्यर्थादिति किम् ? कृतिः, अकरणिः, हानिः ॥ पद्धतेः ॥ ३३ ॥ अस्मात्स्त्रियां ङीर्वा स्यात् । पद्धती, पद्धतिः ॥ शक्तेः शस्त्रे ॥ ३४ ॥ अस्माच्छस्त्रे स्त्रियां ङीर्वा स्यात् । शक्ती, शक्तिः । शस्त्र इति किम् ? शक्तिः सामर्थ्यम् ॥ स्वरातो गुणादखरोः ॥ ३५ ॥ स्वरात्परो य उत्तदन्ताद्गुणवचनात्खरुवर्जात्स्त्रियां ङीर्वा स्यात् । पट्टी, पटुः । विभ्वी, र्थप्रत्ययाः, अतो नानेन ङीः ॥ पद्धतेः पञ्चमी । क्तिप्रत्ययान्तत्वादप्राप्ते वचनम् । पादाभ्यां हन्यते इति पद्धतिः । श्रवादिभ्य इति क्तिः, हिमहतीति सूत्रेण पदादेशः ॥ शक्तेः पञ्चमी, शस्त्रे । शक्यते हिंस्यते परोऽनयेति शक्तिः, श्रवादिभ्यः क्तिः, शक्तिः प्रहरणविशेषः ॥ स्वरात्, उतः पञ्चमी, गुणात्, न खरुरखरुस्तस्मात् । गुणादिति सामान्येनोक्तावपि केवलगुणवृत्तेः स्त्रीत्वायोगात्ततो द्रव्यवृत्तेः प्रत्ययः । अत्र गुणशब्देन कृदन्तसमस्तदद्धितान्तसर्वनामजातिसङ्ख्या संज्ञा शब्दातिरिक्तः शब्दो गृह्यते, न तु गुणसंज्ञकः, उत इति विशेषणात् । नापि विशेषणम्, आखुर्द्रव्यमित्यादावतिप्रसङ्गात् । नापि नैयायिकाभिमतो गुणः, मृद्वी बुद्धिरित्यादेरसिद्ध्यापत्तेः । उक्तञ्च सत्त्वे निविशतेऽपैति, पृथग्जातिषु दृश्यते | आधेयश्चाऽक्रिया जश्च सोऽसवप्रकृतिर्गुणः । इति पातञ्जलमहाभाष्ये । सत्वे द्रव्ये, निविशते सम्बध्यते, अपैति ततो निवर्तते, पृथग्भिन्नासु जातिषु जात्याधारेषु, अर्थाद्भिन्नजातीयेषु द्रव्येषु दृश्यते च यः स गुणो यथा शुक्लादिः, स हि घटादौ यस्मिन्सम्बध्यते तस्मादेव पाकादितो निवर्तते । भिन्नजातीयेषु पयः शङ्खादिषु च दृश्यते । एतेन जातेर्गुणत्वनिरासः, जातिर्हि घटत्वादिः, यत्र घटादौ सम्बध्यते, न तं कदाचिदपि जहाति, नवा पटादिषु भिन्नजातीयेषु दृश्यत इति । नन्वेवं क्रियाया अपि गुणत्वं स्यात्, घटादौ कदाचिदेव दर्शनात्, ततो निवृत्तेः पटादिषु दर्शनाच, २७८
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy