________________
चतुर्थपादः ] अवध्रिपरिष्कारसहितायाम् । २७७ भाजगोणनागस्थलकुण्डकालकुशकामुककटकबरात् प. काऽऽवपनस्थूलाऽकृत्रिमामत्रकृष्णाऽऽयसीरिरंसुश्रोणिकेशपाशे ॥ ३० ।। एभ्यो यथासङ्घयं पकादिष्वर्थेषु स्त्रियां नाम्नि डीः स्यात् । भाजी पका चेत्, भाजाऽन्या । गोणी आवपनम् , गोणाऽन्या । नागी स्थूला, नागाऽन्या । स्थली अकृत्रिमा; स्थलाऽन्या । कुण्डी अमत्रम् , कुण्डाऽन्या । काली कृष्णा, कालाऽन्या । कुशी आयसी, कुशाऽन्या । कामुकी रिरंसुः, कामुकाऽन्या । कटी श्रोणिः, कटाऽन्या । कबरी केशपाशः, कबराऽन्या ॥ नवा शोणादेः ॥ ३१ ॥ शोणादेः स्त्रियां ङीर्वा स्यात् । शोणी, शोणा। चण्डी, चण्डा ॥ इतोऽक्त्यर्थात् ॥ ३२ ॥ तयर्थप्रत्ययान्तवर्जादिदन्तालादीनामणिडी प्रत्ययाभावप्रसङ्गात् । केवलान्तात्संज्ञाया अप्रतीतेरिष्टोऽपि तदन्तविधिर्नात्र प्रवर्तते, तेन शोभनो मामकोऽस्या इति विग्रहे सुमामकेत्येव भवति । मामकी मातुलीत्यर्थः, भागधेयी बलिरित्यर्थः, पापी अपरी ओषधिविशेषौ । समानी छन्दः, आर्यकृती क्रियाविशेषः, सुमनली छन्द ओषधिर्वा, भेषजी ओषधिः ।। भाजश्च गोणश्च नागश्च स्थलश्च कुण्डश्च कालश्च कुशश्च कामुकश्च कटश्च कबरश्च तस्मात्, पक्कश्वाऽऽवपनश्च स्थूलश्चाकृत्रिमश्चामत्रश्च कृष्णश्चाऽऽयसी च रिरंसुश्च श्रोणिश्च केशपाशश्च तस्मिन् । नाम्नीति सम्बध्यते । अमत्रं भाजनमित्यर्थः । जानपदी वृत्तिश्चेत् , जानपदान्या इति कौमुद्याम् , तत्र कटशब्दश्च न दृश्यते ॥ नवा, शोणा आदियस्यासौ तस्मात् । शोणो निर्दोषो रक्तवर्णः, शोणीनामा काचित् , एवं चण्डी चण्डा, गुणवचनत्वे तूत्तरेणैव भविष्यति ।। इतः पञ्चमी, तेरर्थः क्त्यर्थः, न स्यर्थोऽक्त्यर्थस्तस्मात् । भवति सर्वमस्यामिति भूमिः, धूयते वायुनेति धूलिः, करणं कृतिः, स्त्रियां क्तिः, न करणमकरणिः, ' नञोऽनिः शापे' 'नामिनो' अर्, हीनं हानिः, एते त्य