SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २७६ सिद्धहेमलघुवृत्तौ [द्वितीयाध्यायस्य नीलात्प्राण्योषध्योः ॥ २७ ॥ प्राणिन्यौषधौ च, नीलास्त्रियां ङीः स्यात् । नीली गौः, नीली औषधिः । नीलाऽन्या ॥ क्ताच नाम्नि वा ॥२८॥ नीलात् क्तान्ताच्च स्त्रियां संज्ञायांङीर्वास्यात् । नीली प्रवृद्धविलूनी । नीला, प्रवृद्धविलना ॥ केवलमामकभागधेयपापापरसमानाऽऽर्यकृतसुमङ्गलभेषजात् ॥ २९ ।। एभ्यो नाम्नि स्त्रियां ङीः स्यात् । केवली ज्योतिः, मामकी, भागधेयी, पापी, अपरी, समानी, आर्यकृती, सुमङ्गली, भेषजी । नाम्नीत्येव ? केवला ।। पुनरनेन सूत्रेण ङीः । ननु गौरादिभ्य इत्यस्मान्मुख्याधिकारस्य सत्त्वाद्रेवत्यां जाता रेवतीति विग्रहे कन्यावाचित्वेन नक्षत्रे रेवतीशब्द. स्य गौणत्वात्कथमत्रानेन ङीः, उच्यते, अर्थवृत्याऽत्र प्राधान्यात्, प्राधान्यश्च क्वचिच्छब्दवृत्त्या कचित्त्वर्थवृत्त्या भवति, अत्र च नक्षत्ररूपोऽर्थों यदि रेवतीशब्दस्य वाच्यो न भवेत्तदा तद्विशिष्टः कालोऽपि वाच्यो न स्यादित्यर्थवृत्त्या प्राधान्यम् । रेवता, आदित्या प्रत्ययः ॥ नीलात् , प्राणी चौषधिश्च तयोः । नीलीत्यत्र जातिशब्दादपि जातौ नित्यत्रीत्वाजातेरित्यप्राप्तेऽनेनैव ङीः ॥ तात् , च, नाम्नि वा । नीला. दित्यनुवर्तते । प्रवृद्धा चासौ विलूना चेति प्रवृद्धविलूनी, ओषधिविशेषोऽखण्डः संज्ञाशब्दः, व्युत्पत्तिमात्रमिदं कृतम्, प्रवृद्धा चासो विलूना चेत्यर्थकथनमात्रं न तु विग्रहः, स तु प्रवृद्धश्चासौ विलूनश्च, स्त्री चेत्प्रवृद्धविलूनीति कार्यः, अन्यथा गौणत्वाभावेन गोश्चान्त इत्य. प्रवृत्ततयाऽदन्तत्वविरहेण डीन स्यात् ॥ केवलश्च मामकश्च भागधेयश्च पापश्चापरश्च समानश्चार्यकृतश्च सुमङ्गलञ्च भेषजश्च तस्मात् । नाम्नीति वर्तते । सर्वत्रानेन डीः, संज्ञायाम् । मामकशब्दादबन्तत्वेनैवाणबेयेकणित्यनेन छीसिद्धौ नाम्नि नियम्यते, तेनासंज्ञायां मामिका बुद्धिरिति भवति, अत्राञ्लक्षणोऽपि डीनं भवति । मामकशब्दस्यैव नाम्नि डोरिति विपरीतनियमस्तु न भवति संज्ञायां केव.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy