________________
चतुर्थपादः ] अवत्रिपरिष्कारसहितायाम् । २७५ बिस्तादिवर्जनं किम् ! द्विबिस्ता, ध्याचिता, द्विकम्बल्या ॥ काण्डाप्रमाणादक्षेत्रे ॥ २४ ॥ प्रमाणवाचिकाण्डान्तादक्षेत्रविषयाद्, द्विगोस्तद्धितलुकि स्त्रियां डीः स्यात् । आयामः प्रमाणम् , द्वे काण्डे प्रमाणमस्या द्विकाण्डी रज्जुः । प्रमाणादिति किम् ? द्विकाण्डा शाटी। अक्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः ॥ पुरुषाद्वा ॥ २५ ।। प्रमाणवाचिपुरुषान्ताद्विगोस्तद्धितलुकि स्त्रियां ङीर्वा स्यात् । द्विपुरुषी, द्विपुरुषा परिखा । तद्धितलुकीत्येव? पञ्चपुरुषाः समाहृताः, पञ्चपुरुषी : रेवतीरोहिणाझे ॥ २६ ॥ आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियां डीः स्यात् । रेवती, रोहिणी, रेवत्यां जाता रेवती। भ इति किम् ? रेवता ॥ निषेधेनेति चेन्न, देशविशेषे तेषामपि परिमाणार्थत्वात् । बिस्तादिग्रहणात्प्रकृतसूत्रे परिमाणग्रहणेनोन्मानस्यापि ग्रहणात् , उन्मानस्य यदि डीन भवति तर्हि बिस्तादेरेवेति नियमार्थत्वाच्च, तेन द्विनिष्कीत्यादि सिद्ध्यति ॥ काण्डात् , प्रमाणात् , क्षियन्ति निवन्त्युप्तानि बीजानि वृद्धि वा गच्छन्त्यस्मिन्निति क्षेत्रम्, न क्षेत्रमक्षेत्रं तस्मिन् । तद्धितलुकीति वर्तते । 'विशेषणमन्तः' षोडशहस्तप्रमाणं दण्डादि काण्डम् , आयाममात्रपरिच्छेदकत्वाच प्रमाणम् । द्वाभ्यां काण्डाभ्यां क्रीता द्विकाण्डा शाटी, द्वे काण्डे प्रमाणमस्याः सा द्विकाण्डा क्षेत्रभक्तिः, क्षेत्रविभाग इत्यर्थः। प्रमाणान्मात्रट् प्रत्ययः, द्विगोः संशये चेति मात्रट्लोपः । भक्तिमहणं तद्धितार्थस्य स्त्रीत्वार्थम् ॥ पुरुषात् , वा । तद्धितलुकि प्रमाणादिति वर्तते । तदन्तविधिः । द्वौ पुरुषो प्रमाणमस्याः सा, हस्तिपुरुषाद्वेत्यणो द्विगोः संशये चेति लुप् । अनेन वा ङीः । पञ्चपुरुषी, अत्र द्विगो: समाहारादिति नित्यमेव ङीः, तद्धितप्रत्ययस्य कस्याऽप्यभावाल्लुगपि नास्ति ॥ रेवतश्च रोहिणश्च तस्मात् , भं नक्षत्रं तस्मिन् । रेवत्यां रेवतीनक्षत्रयुक्ते काले जाता रेवती, अत्र जातार्थे जातस्याणश्चित्रारेवतीति सूत्रेण लुकि ङीप्रत्ययस्यापि लुकि