________________
२७२
सिद्धहेमलघुवृत्ती [ द्वितीयांच्यायस्य स्यात् । अजा, बाला, ज्येष्ठा, क्रुञ्चा ॥ ऋचि पादः पात्पदे ॥ १७ ॥ कृतपाद्भावपादस्य ऋच्यर्थे पात्पदेति निपात्यते । त्रिपदा, त्रिपाद्गायत्री । ऋचीति किम् ? द्विपात् , द्विपदी ॥ आत् ॥ १८ ॥ अकारान्तास्त्रियामाप् स्यात् । खट्टा, या, सा ॥ गौरादिभ्यो मुख्याद् डीः ॥ १९ ॥ गौरादिगणान्मुख्यात्स्त्रियां ङीः स्यात् । गौरी, शबली । मुख्यादिति किम् ? बहुनदा भूमिः ॥ अणनेयेकण्नस्नटिताम् ॥ २० ॥ अणादीनां योऽत् , तदन्तात्तेषाऋचि सप्तमी, पादः षष्ठी, पाच पदा च पात्पदे। पाद इति कृतपाद्भावः पादशब्दो गृह्यते । त्रयः पादा यस्याः सा त्रिपात त्रिपदा वा गायत्री, ऋच वेदवाक्यमित्यर्थः । सुसङ्ख्यादिति समासान्तः पाद्, अनेन स्त्रीप्रत्ययविशिष्टस्य पात्पदा वा निपात्यते । प्रत्युदाहरणे वा पाद इति वा डीः ॥ आत् । आवित्यनुवर्तते । खट् कांक्षे, खट्यते आका सयते शयालुभिरिति खटा । ' लटि खटि खलि' वप्रत्ययः, अने. नाऽऽप् । अतिखटः प्रियखट इत्यादिप्रयोगदर्शनाखटाशब्दस्याकारान्तत्वम् , अन्यथा गोश्चान्त इति हूस्वो न स्यादाबन्तत्वाभावात् ॥ गौर आदिर्येषान्ते गौरादयस्तेभ्यो मुंख्यात्, ङीः । गौरशब्दात्त्रीत्वेऽनेन ङीः गौरी, बहवो नदा यस्यां सा बहुनदा भूमिः, अन्यपदार्थप्रधानत्वादत्र नदीशब्दो न मुख्यवृत्तिः ॥ द इदनुबन्धो यस्य स टित् , अण् चाञ् च एयश्चेकण्च नञ् च स्नञ् च टिच्च तेषाम् । आदिति मुख्यादिति च वर्तते, अत एव तेषामेवेत्युक्तम् , तस्य विशेषणमणादयः । आच नाम्नो विशेषणम् । उपगतो गौर्येन स उपगुः, उपगोरपत्यं स्त्री औपगवी, ङसोऽपत्ये इत्यण् प्रत्ययः । अस्वयम्भुवोऽव् , अनेन डीरौपगवी। बिदस्यापत्यं पौत्री बैदी अन् , आदिवृद्धिः। सुपा अपत्यं स्त्री सौपर्णेयी, ड्यात्यूङ इत्येयण्प्रत्ययः, अनेन ङीः । एय इति निरनुबन्धग्रहणादेयणेयच् एयवां ग्रहणम् , तेन शिलेयी शैलेयी