________________
चतुर्थपादः ] भवरिपरिष्कारसहितायाम् । २७१ डीन स्यात् । सीमानौ । ताभ्यां वाय् डित् ॥ १५॥ मन्नन्ताहूहुव्रीहेश्चान्नन्तास्त्रियामाब्वा स्यात्, स च डित् । सीमे, सुपर्वे । पक्षे, सीमानौ, सुपर्वाणौ ।। अजादेः ॥ १६ ।। अजादेस्तस्यैव स्त्रियामाप्
इति ज्ञापयितुं सीमानावित्युक्तम् ॥ तच्च तच्च ताभ्याम् , वा, आप, डित् । तच्छब्देन मनोऽनश्च परामर्श:, तदन्तविधिः । अत्र बहुव्रीहे. रित्यन्नन्तेनैव सम्बध्यते, न तु मन्नन्तेन, अनो वा मन इति सूत्रद्वयानुसारात् । सीमे इत्यापि डित्वात् डित्यन्त्यस्वरादेरित्यन्लोपे सीमा औ इत्यत्र औतेत्यनेन सिद्धिः, सुपर्वे इति त्वन्नन्तबहुव्रीहेः प्रथमाद्विवचने रूपम् । पक्षे पूर्वसूत्राभ्यां प्रतिषेधात् डीनं भवति, सीमा. नाविति । उपान्त्यलोपिनस्तु बहुव्रीहेमरपि भवति यथा बहुराजे बहुराजानौ बहुराज्यौ इति । डित्करणमन्त्यस्वरादिलोपार्थम् । डाबित्यनुस्वाऽऽपो डिद्विधानमुत्तरसूत्रेवापोऽनुवृत्यर्थम् ।। अज आदिर्यस्यासौ तस्मात् । आबित्यनुवर्तते । अजादेरित्यावृत्त्या षष्ठ्यन्तत्वेन. विपरि णामादुक्तम् । अजादेस्तस्यैवेति, अजादिमात्रवाच्यस्त्रीत्वे वर्तमानादि. त्यर्थः । अजा जातिलक्षणे ङीप्रत्यये प्राप्ते तदपवाद आप् । बाला वयोलक्षणस्य डीप्रत्ययस्यापवाद आए । ज्येष्ठा धवयोगलक्षणस्य डीप्रत्ययस्यापवादः । क्रुच्चा व्यञ्जनान्तत्वेनाऽप्राप्तेरजादिगणे पाठः। अजादेरित्यस्याऽऽवर्तनादजादिसम्बन्धिन्येव स्त्रीत्वेऽभिधेये सति आब् यथा स्यात्, तेन पञ्चानामजानां समाहारः पञ्चाजीत्यत्र समासार्थसमाहारनिष्ठसमुदायवाचिस्त्रीत्वेऽजाशब्दमात्रवाच्यत्वाभावेन नाप् । न च नामग्रहणेन तदन्तविधिरिति न्यायादजाद्यन्तात्पञ्चाजीशब्दादापोऽप्राप्त्याऽजादेरित्यस्यावर्तनं निरर्थकमिति वाच्यम् , अत एव हि ज्ञापकास्त्रीप्रकरणे तदन्तादपि विधेर्भावात् । तेन महांश्वासावजश्चेति सामान्येन विग्रहे खीविवक्षायां महाजा परमाजेति सिध्यति ।।