________________
२६८
सिद्धमलघुवृत्तौ
[ द्वितीयाध्यायस्य
"
स्त्रियां ङीः स्यात्, तद्योगे वनोऽन्तस्य रश्च । अवावरी, धीवरी, मेरुदृश्वरी । णस्वराघोषादिति किम् ? सहयुध्वा स्त्री । विहितविशेषणं किम् ? शर्वरी ॥ वा बहुव्रीहेः ॥ ५ ॥ णस्वराघोषाद्विहितो यो वन्, तदन्ताद्बहुव्रीहेः स्त्रियां ङीर्वा स्यात्, रश्चान्तस्य । प्रियावावरी, प्रियावावा । बहुधीवरी, बहुधीवा । बहुमेरुहश्वरी, बहुमेरुदृश्वा || वा पादः || ६ || बहुव्रीहेस्तद्धेतुकपाच्छब्दान्तात्स्त्रियां ङीर्वा स्यात् । ङ्गनिपामविशेषेण ग्रहणम् । क्वचिन्निरनुबन्धग्रहणे सानुबन्धस्यापि ग्रहणमिति न्यायात् प्रत्ययग्रहणे यस्मात्स विहितस्तदा देस्तदन्तस्य ग्रहमिति न्यायेन वन्प्रत्ययस्य ग्रहणे वनन्तस्य नाम्नस्तदन्तस्य च भवति । अत एव मेरुदृश्वरीत्युदाहृतम् । ओण अपनयने, ओणतीति अवावा, सा अवावरी वन्प्रत्ययः । वन्याङ्गपञ्चमस्य णस्य आः, अवादेशो ऽनेन ङीः, अवावन् ई इति जाते, वनो नस्यानेनैव सूत्रेण रकारेऽवावरी | दधाति या सा धीवरी, कनिपि ईर्व्यञ्जने इति ईत्वेऽनेन ङीः, नस्य च रः । मेरुं दृष्टवती मेरुदृश्वरी, अघोषान्ताद् दृश् धातोः क्वनिपि रूपम् । सह योधितवतीति सहयुध्वा, अत्र न ङीर्घोषत्वात् । शृशू हिंसायाम्, शृणातीति शर्वरी, स्वराद्विहिते वन्प्रत्यये परे गुणे कृते घोषवतः शर्वन्शब्दात् यथा ङीः रश्च स्यातामतो विहितविशेषणम् । पाणिनीयेऽवावा इत्येव रूपम्, न त्ववावरीति । उक्तप्रयोगेषु नान्तत्वादेव ङीः स्त्रियां नृत इत्यनेन सिद्धा, तथापि णखराघोषादेव वनो ङीर्भवतीति नियमार्थं रविधानार्थेश्च वचनम्, तेन सहयुध्वेत्यादौ स्त्रियां नृत इत्यनेनापि ङीर्न भवति ॥ वा बहुव्रीहेः पञ्चमी । पूर्व: सूत्रमनुवर्तते । प्रियोऽवावा यस्याः सा प्रियावावरी, पक्षे ङीप्रत्ययाभावे प्रियावावा. । बहवो धीवानो यस्याः सा बहुधीवरी, पक्षे बहुधीवा, राजशब्दवद्रूपम् । बहवो मेरुदृश्वानो यस्याः सा बहुमेरुदृश्वरी नगरी, नस्य रः ॥ वा, पादः पञ्चमी । बहुव्रीहेरित्यनुवर्तते । तच्च पदं पाच्छब्दस्य