________________
.
तुर्थपादः ]
अवचूरिपरिष्कारसहितायाम् |
तूहदितः || २ || अधातुर्य उदिद्यदिच्च तदन्तात्स्त्रीवृत्तङः स्यात् ।
भवती, अतिमहती, पचन्ती । अधात्विति किम् ? सुकन् स्त्री ॥ अञ्चः || ३ || अञ्चन्तात्स्त्रियां ङीः स्यात् । प्राची, उदीची ॥ णस्वराघोषाद्वनो रश्च ॥ ४ ॥ एतदन्ताद्विहितो यो वन्, तदन्तापत्तौ नैकः प्रकारः शक्यो नियन्तुं शब्दशक्तिस्वाभाव्यात् ॥ उच्च ऋच्च उत्, उद्यदिदनुबन्धो यस्यासौ उहदित्, न धातुरधातुः, अधातुश्चासौ उहदिश्चाधातूहदित्तस्मात् । नाम्नो विशेपणातदन्तविधिः । स्त्रियां ङीरित्यनुवर्तेते, एवमग्रेऽपि । भवतीति, भां दीप्तौ, भातीति भवति, भातेर्डवतु प्रत्ययः, इदं उदिदन्तनाम्न उदाहरणम् । मह्यते या सा महती, दुहिवहीति कतृप्रत्ययः, ऋदिदन्तनामत्वान् ङीः महती, स्त्रीप्रत्ययप्रकरणे तदन्तविधेरिष्टत्वात्, महान्तमतिक्रान्तातिमहती । अथवा उदिद्यदिच्च द्विविधं भवति, नाम प्रत्ययश्चेति, आद्ये उदन्ते अतिभवती अतिमहतीति रूपम्, सर्वाद भवत्विति उदितः पाठात्, अत्र भवतु उदित्, तदन्तं नामातिभवत्तस्माद् ङीः । केवलभवच्छब्दात्तु व्यपदेशिवद्भावेन ङीर्विधेया । एवं महच्छब्दः शतृवद्भावभूतः ऋदित्तस्मादतिमहतीति ङीप्रत्ययेऽतिमहती, महतीत्यत्र तु व्यपदेशिवद्भावेन । व्युत्पत्तिपक्षाव्युत्पत्तिपक्षाश्रयेण कल्पद्वयं बोध्यम् । सुकन् स्त्रीति, कसुकि गतिशातनयोरिति धातोः सूपसर्गात्कित्रन्तान्निष्पन्नः अत्र धातोरेव उदित्वान्नानेन ङीः ॥ अञ्चः पञ्चमी । प्राञ्चतीति किपू, अचोऽनचयाम्, अच् प्राग्दीर्घश्वेत्यादिसूत्रैः सिद्ध्यति, प्राची, अनेन ङीः । अञ्च इति कृतमलोपा - भावस्य धातुरूपस्याश्वेर्निर्देशस्तेनार्चाविवक्षणे नलोपाभावे तदविवक्षणे लोपेऽपि ङीः सिद्ध्यति, प्राची प्रत्यश्वीत्यादि । अच इति कृतनलोपस्य निर्देशे तु, अन्न नलोपाभावाद् ङीर्न स्यात् ॥ णश्च स्वरश्वाघोषश्च तस्माद्वनः पञ्चमी, रः प्रथमा, च ॥ वन इति वन् क्वनिप्
"
२६७