________________
२६६
सिद्धलघुवृ
[ द्वितीयाध्यायस्य
"
किम् ? पञ्च नद्यः | अस्वस्रादेरिति किम् ? स्वसा, दुहिता ॥ अधापचयस्थितयो वस्तुमात्रधर्माः खट्टाद्यचेतनसाधारणा इति गुणोपचयादिरूपं लिंङ्गम् । तच्चावस्थात्रयं केवलान्वयी पदार्थमात्रवृत्तित्वात्, इयं व्यक्तिरिदं वस्तु, अयं पदार्थ इति वस्तुमात्रे त्रिविधव्यवहारस्य दर्शनात् । तत्र कश्चिच्छन्द उपचयावस्थाविशिष्टस्य बोधक इति पुल्लिङ्गे शक्तः कश्चिश्चापचयावस्थाविशिष्टस्येति खीलिङ्गे, कश्चित्तु स्थित्यवस्था विशिष्टस्येति नपुंसकलिङ्गे, कश्चिच्चावस्थाद्वयविशिष्टस्येति द्विलिङ्गे, कश्चिच्चावस्थात्रयविशिष्टस्येति त्रिलिङ्गे, इत्येवं व्यवस्था लिङ्गानुशासनतो वृद्धव्यवहारतश्च निर्णीयते । नन्वेते ङयाबादयः स्त्रीप्रत्ययाः स्त्रीत्वस्य द्योतकाः, न तु वाचकाः । तत्र यथा विद्युदादयः शब्दा बिना स्त्रीप्रत्ययेन शब्दमहिम्नैव स्त्रीत्वं प्रतिपादयन्ति तथैव खट्टादयोऽपि प्रतिपादयिष्यन्तीति स्त्रीप्रत्ययविधानं किमर्थमिति चेदुच्यते, विचित्रशक्तयो हि भावा भवन्ति, यथा घटादय आत्मानं प्रदीपापेक्षया प्रकाशयन्ति, प्रदीपस्तु प्रदीपान्तरनिरपेक्षयैव स्वात्मानं प्रकाशयति, घटादयोऽपि कचित्प्रदीपसापेक्षाः प्रकाशयन्ति, कचिच्च शरीरसंश्लिष्टास्तन्निरपेक्षा एव तथैव शब्दा अपि क्वचित्पदान्तरापेक्षया, कचित्तदनपेक्षया च स्त्रीत्वं प्रतिपादयन्ति । तत्रेयं गौरित्यादौ गोशब्द इयमिति पदान्तरापेक्ष एव स्त्रीत्वं प्रतिपाद्यते, पदान्तरापेक्षया क्वचिन्नाममात्रेण, क्वचिच्चा देशप्रत्ययाभ्यां यथा - स्वसादुहितेत्यादयो नाममात्रेण स्त्रीत्वप्रतिपत्तौ समर्थाः । आदेशोऽपि संप्रत्ययेन अप्रत्ययेन च, क्रोष्ट्री कारीषगन्ध्या इत्यादि सप्रत्ययेन । तिस्रश्चतस्र इत्यादिशब्दा अप्रत्ययेन । प्रत्ययोऽपि एकोऽनेको वा, राज्ञी खट्टा इत्येकेन प्रत्ययेन, अनेकेन प्रत्ययेन कचित्सान्तरेण कचिन्निरन्तरेण कचित्सान्तरं निरन्तरेण च । तत्र कालितरा हरिणीतरा इत्यादयः सान्तरेण, अर्याणि भवानीत्यादयो निरन्तरेण, अर्याणितरा भवानितरा इत्यादयः सान्तरनिरन्तरेण, इत्येवं विविधप्रकारायां लिङ्गप्रति