________________
॥ अथ द्वितीयाध्याये चतुर्थः पादः॥
स्त्रियां नृतोऽस्वस्रादेर्डीः ॥ १॥ स्त्रीवृत्तेर्नान्ताहदन्ताच्च स्वसादिवर्जाद् ङीः स्यात् । राज्ञी, अतिराज्ञी, की । स्त्रियामिति
स्त्रियाम् , न् च ऋच्च नृत्तस्मात् , स्वसा आदिर्यस्यासौ, न स्वस्रादिरस्वस्रादिस्तस्मान्डीः । नाम्न इति विशेष्यं सामर्थ्यात्प्राप्तम् , नृत इति विशेषणम् , तदन्तविधिश्च । राजन् ङीः, अनोऽस्येत्यलोपः, तवर्गस्येति न ब् जोर्योगे ज्ञः । स्त्रीप्रत्ययप्रकरणे तदन्तविधेरिष्टत्वात्पूजितो राजाऽतिराजा, स्त्री चेदतिराज्ञी। पूजास्वतेरिति समासान्तनिषेधः । स्त्रीत्वे वर्तमानात्कर्तृशब्दान्डीः प्रत्ययः कर्ची । पञ्चेति नान्तस्य सङ्ख्यावाचिनो युष्मदस्मदोरिवालिङ्गत्वान्न कारलोपेऽपि आदित्याबपि न भवति । स्वस्रादिश्च-स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा, याता मातेति सप्तैते वस्रादय उदाहृताः ॥ १ ॥ अत्र, स्तन. केशवती नारी लोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च, तदभावे नपुंसकम् ॥ २ ॥ इति लोके तत्तच्चिद्रं दृष्ट्वाऽयं पुमानियं स्वी, इदं नपुंसकमिति व्यवहारः प्रवर्तते, स्तनकेशादिव्यञ्जिता सा स्त्रीत्वादि जाति त्र ग्राह्या, अचेतने खटादौ तदभावात् । दारानित्यादी नत्वाभावप्रसङ्गात् । तटस्तटी तटमित्यादौ लिङ्गत्रयप्रयुक्तकार्याभाव. प्रसङ्गाच्च । अतः पारिभाषिकमेव लिङ्गत्रयं ग्राह्यम् , सत्त्वरजस्तमसामुपचयः पुंस्त्वम् , तेषामपचयः स्त्रीत्वम्, तेषां स्थितिर्नपुंसकत्वमिति । सर्वे हि पदार्थाः परिणामिनः, अत आविर्भावतिरोभावधर्मकाः, मध्ये स्थितेरप्यवश्यम्भावास्थितिधर्मका अपीति, उपचया