SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २६५ सिद्धहेमलघुवृत्ती द्वितीयाध्यायस्य पल्यङ्कः, पर्यङ्कः । पलियोगः, परियोगः ॥ ऋफिडादीनां डश्च लः ॥ १०४ ॥ एषामृरललौ, डस्य च ल् वा स्यात् । ऋफिडः, लफिलः । ऋतकः, लतकः । कपरिका, कपलिका ॥ जपादीनां पो वः ॥१०५॥ एषां पो वो वा स्यात् । जवा, जपा । पारावतः, पारापतः ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ. शब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य षत्वणत्व. प्रकरणात्मकस्तृतीयः पादः समाप्तः ॥२३॥ अङ्कमङ्केन वा परिगतः पल्यङ्कः । एवं पलियोगः ॥ ऋफिडः आदिर्येषान्तेषाम् , डः षष्ठी, च, लः प्रथमा । चकारेण ऋरललमित्यस्याऽनुकर्षः ॥ जपा आदिर्येषां तेषाम् , पः षष्ठी, वः प्रथमा ॥ इति द्वितीयाध्यायस्य तृतीयपादे षत्वणत्वप्रकरणात्मकः अवचूरिपरिष्कारः समाप्तः ॥
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy