________________
चतुर्थपादः ] अवत्रिपरिष्कारसहितायाम् । २६९ द्विपदी, द्वीपात् । बहुव्रीहिनिमित्तो यः पाद् इति विशेषणादिह न स्यात् । पादमाचष्टे क्विपि पाद् , त्रयः पादोऽस्याः सा त्रिपात् ॥ अध्न: ॥७॥ ऊधन्नन्ताबहुव्रीहेः स्त्रियां ङीः स्यात् । कुण्डोनी ॥ अशिशोः ।। ८ ॥ अशिश्विति बहुव्रीहेः स्त्रियां ङीः स्यात् । अशिश्वी ॥ सङ्ख्यादेोयनाद्वयसि ॥ ९ ॥ सङ्ख्यादेर्हायनान्ताबहुव्रीहेः स्त्रियां ङी: स्यात् , वयसि गम्ये । त्रिहायणी, चतुर्हायणी वडवा । वयसीति किम् ? चतुर्हायना शाला ॥ दाम्नः ॥ १० ॥ सङ्ख्यादेमन्नन्ताबहुव्रीहेः स्त्रियां ङीः स्यात् । द्विदाम्नी । सङ्घयादेरित्येव ?
विशेषणमत एवोक्तं तद्धेतुकपाच्छब्दान्तादिति, बहुव्रीहिनिमित्तो यः पाच्छब्दस्तदन्तादित्यर्थः । द्वौ पादौ यस्याः सा द्विपदी, सुसङ्ख्यादित्यनेन बहुब्रोही पादस्य पादादेशस्ततोऽनेन वा ङीः, यस्वरे पाद इति पाच्छ. ब्दस्य पदादेशः, ङीप्रत्ययाभावे तु न पदादेशः, द्विपात् ॥ ऊनः पञ्चमी । बहुव्रीहेरित्यनुवर्तते । नाम्नो विशेषणत्वात्तदन्तविधिः । ऊधन्निति कृतनकारादेशस्य ऊधसो ग्रहणम् । कुण्डवदूधो यस्याः सा कुण्डोनी, 'स्त्रियामूधसोन्' सस्य न , अनोऽस्य, डोः, कुण्डोधी । अनो वेति विकल्पे प्राप्ते वचनम् ॥ अशिशोः पञ्चमी । बहुव्रीहे. रित्यनुवर्तते । अविद्यमानः शिशुरस्या इत्यशिश्वी, अनेन ङीः, इव.
देरस्वेस्वरे, पृथग्योगान्न तदन्तविधिः ॥ सङ्ख्या आदिर्यस्यासो तस्मात् , हायनात , वयसि । बहुव्रीहेरित्यनुवर्तते । त्रीणि हायनानि वर्षाणि यस्याः सा, चतुस्नेत्यनस्य वयसीति णत्वम् । चतुर्हायना इति, कालकृता प्राणिनां शरीरावस्था वय इति कीर्णत्वञ्च न भवतः ॥ दाम्नः पञ्चमी । बहुव्रीहेः सङ्ख्यादेरित्यनुवर्तते । अनो वेत्यस्यापवादः । द्वे दाम्नी यस्याः सा द्विदाम्नी । उदूर्ध्वमुद्गतं वा दाम यस्याः सा तामुद्दामानम् । अनो वेति विकल्पतो डीः, पक्षे विक