SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः ] अवरिपरिष्कारसहितायाम् । २५७ पाठ इति किम् ? प्रनिचकार ॥ द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा ॥ ८१ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्यानितेनों द्वित्वाद्वित्व. योरन्तानन्तयोश्च ण् स्यात् , परिपूर्वस्य वा स्यात् । प्राणिणिषति, पराणिति, हे प्राण । पर्यणिणिषति, पर्यनिनिषति; पर्यणिति, पर्यनिति; हे पर्यण् , हे पर्यन् ॥ हनः ॥ ८२ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य हन्तेर्नो ण् स्यात् । पाहण्यत, प्रहण्यते, अन्तर्हण्यते ॥ वमि वा ॥ ८३ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य हन्तेर्नो व्मोः परयोर्ण वा स्यात् । प्रहण्वः, प्रहन्वः । प्रहण्मि, प्रहन्मि । अन्तर्हण्वः, अन्तर्हन्वः । अन्तर्हण्मः, अन्तर्हन्मः ॥ निंसनिक्षनिन्दः कृति वा ॥ ८४ ।। अदुरुपसर्गान्तःस्थाद्रादेः परस्य निसादिधातोनों ण् वा स्यात् , कृत्प्र. प्रनिचकारेति, अत्र पाठे ककारादित्वात्सम्प्रति चकारादित्वेऽपि प्रति. षेधो भवति ॥ द्वित्वे, अपि, अन्ते, अपि, अनितेः षष्ठी, परेः पञ्चमी, तु, वा ॥ अदुरुपसर्गान्तर इति सम्बध्यते । द्वित्वेऽप्यन्ते. ऽपि, इत्यत्राऽपिनाऽद्वित्वस्यानन्तस्य च बोधः, प्राणिणिषतीत्यादौ द्वयो. रपि नकारयोरनेनैव णत्वम् , द्वित्व इति वचनात् । अत्र परे द्वित्वे कर्तव्ये णषशास्त्रमसद् द्रष्टव्यमिति न्यायाद् द्वित्वे कृते णत्वम् । प्राणितीति प्राण मन्वन् कनिए विच् प्रत्ययः, 'अप्रयोगीदिति विच लोपः । अन्ते 'नाऽऽमन्त्र्ये' इति नलोपस्य निषेधान्नान्तत्वं सम्भवतीत्यामन्त्र्ये उदाहरणं दर्शिवम् ॥ हनः षष्ठी। अदुरुपसर्गान्तर इति वर्तते ॥ वश्च म् च तस्मिन् , वा । अदुरुपसर्गान्तरः, हन इति च वर्तते । पूर्वेण नित्यं प्राप्ते विकल्पार्थ वचनम् ॥ निंसश्च निक्षश्च निन्द् च तस्य, कृति सप्तमी, वा ॥ अदुरुपसर्गान्तर इत्यायाति । णिसुकि चुम्बने, णिक्ष चुम्बने, णिदु कुत्सायाम् । 'उदितः स्वरान्नो. ऽन्तः' प्रणिस्यत इति प्रणिंसनं, अनट् प्रत्ययः । प्रणिस्त इति वर्तमाने ३३
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy