SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २५६ सिकोमलघुती। द्वितीयाण्यावस्य परेषु ण् स्यात् । प्रणिमिमीते, परिणिमयते, प्रणिददाति, परिणिदयते, प्रणिदधाति, प्रणिपतति, परिणिपद्यते, प्रणिनदति, प्रणिगदति, प्रणिवपति, प्रणिवहति, प्रणिशाम्यति, प्रणिचिनोति, प्रणियाति, प्रणिवाति, प्रणिद्राति, प्रणिप्साति, प्रणिष्यति, प्रणिहन्ति, प्रणिदेग्धि, अन्तर्णिमिमीते ॥ अकखाद्यषान्ते पाठे वा ।। ८० ।। धातुपाठे कखादिः पान्तश्च यो धातुपाठस्ताभ्यामन्यस्मिन्धातौ परेऽदुरुपसर्गान्तःस्थाद्रादेः परस्य ने! ण् वा स्यात् । प्रणिपचति, प्रनिपचति । अकखादीति किम् ? प्रनिकरोति, प्रनिखनति । अषान्त इति किम् ? प्रनिद्वेष्टि । परिणिमयते, इति मेडेग रूपम् । दा इति संज्ञापरिग्रहाद् ददाति दयति, यच्छति, द्यति, दधाति, धयतीनां ग्रहणम् । वप्यादीनामनुबन्धेन तिवा च निर्देशाद् यङ्लुबि अनेनैषु परेषु न णत्वम् । पूर्वेषु तु धातुषु भवति । पाणिनीये पतादिचतुर्वपि यङलुबि णत्वं न भवति, सूत्रे शपा निर्देशात् । ङ्मेति निर्देशो नानुबन्धार्थः, किन्तु मात्यादिनिवृत्त्यर्थः, तेन यङ्लुप्यपि णत्वम् । अत्र सूत्रे हनादेशस्य वधेः पाठो न दृश्यते रूपश्च प्रण्यवधीदिति भवति, सूत्रे च तदपाठात् 'भूतपूर्वकस्तद्वदुपचार' इति न्यायो ज्ञाप्यते, तेन वधेर्भूतपूर्वहनरूपत्वोपचारादनेन णत्वं सिद्ध्यति । एवं प्रणिहतः प्रणिन्नन्ति, इत्यादौ 'एकदेशविकृतमनन्यवदिति न्यायाद् हनरूपत्वाण्णत्वम् । अडागमस्य 'आगमा यद्गुणीभूता' इति न्यायेन धात्ववयवत्वात् व्यवधायकत्वा. भावेन प्रण्यमिमीतेत्यादावपि णत्वम् । एवमनुबन्धेन तिवा निर्देशेन च 'स्वाङ्गमव्यवधायी'ति न्यायो ज्ञाप्यते, अन्यथा हि प्रनिवावपीतीत्यादौ वाशब्देन व्यवधानादेव गत्वप्राप्तिन भवतीत्यनुबन्धादिना निर्देशो निरर्थकः स्यात् ॥ कश्च खश्च कखौ, कखावादियस्यासौ, न कखादिरकखादिः, षोऽन्ते यस्यासौ षान्तः, न पान्तः अषान्तः, अक. खादिश्चाषान्तश्च तस्मिन् , पाठे, वा ।। अदुरुपसर्गान्तर इत्यनुवर्तते ।
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy