SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सिद्धमलघुवृत्तौ [ द्वितीयाध्यायस्य 1 त्यये । प्रणिसनं प्रनिसनम् । प्रणिक्षणं, प्रनिक्षणम् । प्रणिन्दनं, प्रनिन्दनम् । कृतीति किम् ? प्रणिस्ते ॥ स्वरात् ॥ ८५ ॥ अदुरुपसर्गान्तःस्थाद्रादेः परस्य स्वरादुत्तरस्य कृतो नो ण् स्यात् । प्रहाणः, प्रहीणः ॥ नाम्यादेरेव ने || ८६ | अदुरुपसर्गान्तः स्थाद्रादेः परस्य नागमे सति नाम्यादेरेव धातोः परस्य स्वरादुत्तरस्य कृतस्य नो ण् स्यात् । प्रेङ्खणं प्रेङ्गणं प्रेङ्गणीयम् । नाम्यादेरिति किम् ! प्रमङ्गनम् ॥ व्यञ्जनादेर्नाम्युपान्त्याद्वा ॥ ८७ ॥ अदुरुपसर्गान्तःस्थाद्रादेः रूपम् । ‘गतिकारकङस्युक्तानामिति न्यायात् अविभक्तयन्तैः कृदन्तैः सह प्रादीनां समासे सति निमित्तनिमित्तिनोरेकपदस्थत्वाद् 'रघुवर्णादित्यनेन नित्यं णत्वे प्राप्ते विकल्पार्थमिदम् ॥ स्वरात् ॥ अदुरुपसर्गान्तरः कृतीति वर्तते, कृतीति च विषयसप्तमी । ओहांकू हा, प्रायते स्म क्तप्रत्ययः, 'सूयत्याद्योदितः ' तो नः । ओहांक् त्यागे, प्रहीयते स्म, 'ईर्व्यञ्जने ' ईकारः । गतिकारकेति न्यायात्. 'रघुवर्णादि ' त्यनेनेोक्तप्रयोगेषु णत्वं सिद्धमेव, किन्तु प्रयायिणौ परियायिणावित्यत्र 'वोत्तरपदे 'ति विकल्पतः प्राप्तस्य णत्वस्य निवृत्त्यर्थ - मिदमारभ्यते । यथासम्भवं क्तक्तवतू अन आन इन् अनि अनीय इत्येते प्रत्ययाः प्रयोजयन्ति ॥ नामी आदिर्यस्य तस्मात्, एव, ने । अनुवृत्तिः पूर्ववत्स्वरादिति च वर्तते ॥ इखु इगु गतौ, उदितः स्वरान्नोन्तः, प्रेङ्ख्यत इति प्रेङ्खणम् । प्रेङ्खणीयमनीयप्रत्ययः । प्रमङ्गनः मिति, मगु गतौ । स्वरादित्यनेनैव सिद्धे नियमार्थमिदम् । एवकारो नैव सति नाम्यादेरिति नियमव्यावृत्त्यर्थम् तेन प्रेहणमित्यादौ णत्वं भवति । नग्रहणं नागमादेशोपलक्षणार्थम्, नकारस्य व्यवधाने हि णत्वस्य प्राप्तिरेव नास्ति यथा प्रेन्वनमित्यादौ । नाम्यादिव्यञ्जनान्तादेवायं नियमः । ण्यन्तात्तु 'र्वे 'ति परत्वाद्विकल्प एव ॥ व्यञ्जनं आदिर्यस्य तस्मात्, नामी उपान्त्ये यस्य तस्मात्, वा ॥ अनु " २५८
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy