________________
तृतीयपादः ] अवरिपरिष्कारसहितायाम् । २४७ किम् ? विस्कन्नः, विस्कन्नवान् ॥ परेः ॥५२॥ परेः स्कन्दः सः ष् वा स्यात् । परिष्कन्ता, परिस्कन्ता । परिष्कन्नः, परिस्कन्नः ॥ निर्नेः स्फुरस्फुलोः ॥ ५३ ॥ आभ्यां परयोः स्फुरस्फुलोः सः प् वा स्यात् । निःष्फुरति, निःस्फुरति, निष्फुरति, निस्फुरति । निःष्फुलति, निःस्फुलति, निष्फुलति, निस्फुलति ॥ वेः ॥ ५४॥ वेः परयोः स्फुरस्फुलोः सः ष् वा स्यात् । विष्फुरति, विस्फुरति । विष्फुलति, विस्फुलति ॥ स्कभ्नः ॥ ५५ ॥ वेः स्कन्नः सः ष् नित्यं स्यात् । विष्कम्नाति ॥ निर्दुःसुवेः समसूतेः ॥ ५६ ॥ एभ्यः परयोः समसूत्योः सः ष् स्यात् । निःषमः, दुःषमः सुषमः, विषमः । निःपूतिः, द्विवचनात् अर्थवद्हणन्यायमुपेक्ष्य द्वयोर्ग्रहः ॥ परेः पञ्चमी । स्कन्द इत्यनुवर्तते । पृथक् सूत्रकरणात् , अक्तयोरिति नाऽनुवर्तते । परिष्कन्तेति तृजन्तम्, परिष्कन्न इति तु क्तान्तं रूपम् ॥ निश्च निश्च निर्निस्तस्मात् , स्फुरश्च स्फुल् च तयोः ॥ निःष्फुरति, अत्र निसस्सकारस्य रुत्वम् , 'शषसे शषसं वेति सत्वम् , अनेन धातुसकारस्य षत्वम् , 'सस्य शषाविति षत्वम् , निष्फुरति । सत्वाभावपक्षे कदाचिद्विसर्गः, कदाचित् 'व्यत्यये लुग्वे'ति लोपः, मूर्द्धन्याभावपक्षे कदाचित् सकारद्वयश्रवणं कदाचिद्विसर्गलोपौ। वचनभेदो यथासङ्ख्य निवृत्त्यर्थः । वेः पञ्चमी ॥ स्फुरस्फुलोरित्यन्वायाति । योगविभाग उत्तरत्र वेरेव सम्बन्धार्थः ॥ स्कम्नः षष्ठी । वेरित्यायाति । पृथक् सूत्रविरचनानवेति निवृत्तम् । अन्यथा वेः स्कभ्नश्चेति क्रियेत । स्कभ्न इति भानिर्देशः श्नुनिषेधपरः, व्याख्यानतो विशेषप्रतिपत्तिरिति न्यायात् । स्कम्भू सौत्रो धातुः, अषोपदेशः । विष्कम्नाति, क्षुभ्नादित्वान्न णत्वम् ॥ निश्च दुश्च सुश्च विश्व तस्मात्, समश्च सूतिश्च तस्य ॥ समसूतीति नाम्नो ग्रहणम् , न तु धातोः । निश्चितः समः निःषमः । दुष्टः शोभनो वा समः। विगतः समो विषमः । नाम