SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २४६ सिद्धद्दमलघुवृत्तौ । [ द्वितीयाध्यायस्य परिसोढः । मा परिसीषिवत् । मा परिसीषहत् ॥ स्तुस्वञ्जश्चाटि नवा ॥ ४९ ॥ परिनिवेः परस्य स्तुस्वञ्जरसोङसिवूसहस्सटां च सोऽटि सति वा स्यात् । पर्यष्टोत्, पर्यस्तौत् । न्यष्टौत्, न्यस्तौत् । व्यष्टोत्, व्यस्तौत् । पर्यष्यजत् पर्यस्वजत् । न्यष्वजत् न्यस्वजत् । " 1 व्यध्वजत् व्यस्वजत् । पर्यषीव्यत् पर्यसीव्यत् । न्यषीव्यत्, न्यसीव्यत् । व्यषीव्यत्, व्यसीव्यत् । पर्यषहत, पर्यसहत । न्यषहत, न्यसहत । व्यषहत, व्यसहत । पर्यष्करोत्, पर्यस्करोत् । असोङसिवूसहेत्येव ! पर्य सोढयत् । पर्यसीपीवत् पर्यसीषहत् ॥ निरभ्यनोश्च स्यन्दस्याप्राणिनि ||५० || एभ्यः परिनिवेश्च परस्याप्राणिकर्तृकार्थवृत्तेः स्यन्दः सः घ् वा स्यात् । निःष्यन्दते, निःस्यन्दते । अभिष्यन्दते, अभिस्यन्दते । अनुष्यन्दते, अनुस्यन्दते । परिष्यन्दते, परिस्यन्दते । निष्यन्दते, निस्यन्दते । विष्यन्दते, विस्यन्दते तैलम् । अप्राणिनीति किम् ? परिस्यन्दते मत्स्यः ॥ aः स्कन्दोऽक्तयोः ॥ ५१ ॥ विपूर्वस्य स्कन्दः सः घ् वा स्यात्, न चेत् क्तक्तवतू स्याताम् । विष्कन्ता, विस्कन्ता । अक्तयोरिति सीषिवदिति ङविषयः । सिवोऽनुबन्ध निर्देशाद्यङ्लुपि न षः । बहुवचनं परिनिविभिस्सह यथासङ्ख्यनिवृत्त्यर्थम् ॥ स्तुश्च स्व च तस्य, च, अटि सप्तमी, नवा ॥ परिनिवेः, असोङ, सिवूस हस्सटामित्यनुवर्तन्ते । स्तुस्वञ्चो 'रुपसर्गात्सु गिति' 'स्वखेचे 'ति नित्ये प्राप्ते सिवूसहस्सटाञ्चाऽप्राप्ते विकल्प्यते || निश्च अभिश्च अनुश्च तस्मात्, च, स्यन्दस्य, न प्राणी अप्राणी तस्मिन् ।। चात्परिनिवेरित्यायाति । स्यन्दौर प्रस्रवणे । अप्राणिनीति पर्युदासस्तेन प्राणी अप्राणी च कर्त्ता यत्र भवति तत्राप्राण्याश्रयो विकल्पो भवति, न तु प्रतिषेधः प्राण्याश्रयः यथाऽनुष्यन्देते मत्स्योदके ॥ वेः पञ्चमी, स्कन्दः षष्ठी, तश्च तवांश्च क्तौ, 'समानामर्थेनैकः शेष' इति क्तबल्लोप:, न तावक्तौ तयोः ॥ स्कन्दुं गतिशोषणयोः । विष्कन्ता 'णकतृचौ ' अक्तयोरिति " " "
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy