SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २४५ तृतीयपादः ] अवरिपरिष्कारसहितायाम् । स्वञ्जश्च ॥४५॥ उपसर्गस्थानाम्यादेः परस्य स्वनः सो द्वित्वेऽप्यट्यपि ष् स्यात् , परोक्षायां त्वादेरेव । अभिष्वजते अभिषिष्वङ्कते, प्रत्यष्वजत, परिषस्वजे। परिनिवेः सेवः ॥४६।। पर्याधुपसर्गस्थान्नाम्यादेः परस्य सेवतेः सो द्वित्वेऽप्यट्यपि ष् स्यात् । परिषेवते, परिषिषेवे, परिषिषेविषते, पर्यषेवत, निषेवते, विषिषेवे ॥ सयसितस्य ॥४७॥ परिनिवेः परस्य सयसितयोः सः स्यात् । परिषयः, निषयः, विषयः । परिषितः, निषितः, विषितः । असोङसिथसहस्सटाम् ॥४८|| परिनिविभ्यः परस्य सिवूसहोः स्सटश्च सः ष् स्यात् , न चेत् सिवूसहौ सोडविषयौ स्याताम् । परिषीव्यति, निषीव्यति, विषीव्यति । परिष. हते, निषहते, विषहते । परिष्करोति, विष्किरः । असोडेति किम् ? इत्यस्य, षद्लँत् अवसादने इत्यस्य चात्र ग्रहणम् , गर्हितं विषीदतीति विषापद्यते ॥ स्वञ्जः षष्ठी, च ॥ द्वित्वेऽपि, अट्यपीति वर्तते । चकारेण परोक्षायां त्वादेरित्यस्यानुकर्षः । इदमेव चग्रहणं 'चानुकृष्टं नानुवर्तते' इति न्यायं सूचयति । चकारेण समुञ्चितन्तु यथेच्छमनुवर्तत एव । योगविभागादप्रतेरिति नाऽनुवर्तते ॥ परिश्च निश्च विश्व तस्मात् , सेवः षष्ठी ॥ द्वित्वेऽपि, अट्यपीत्युपयुज्यते ॥ सयश्च सितश्च तस्य ॥ परिनिवेरित्यनुवर्तते । पृथग्योगाद् द्वित्वेऽपि, अट्यपीति निवृत्तम् । सय इति सिनोतेः, अलन्तस्याजन्तस्य घान्तस्य वा रूपम् । सित इति क्तान्तस्य स्यतेर्वा नियमार्थम , परिनिविपरस्यैव तान्तस्य स्यतेर्यथा स्यादिति । परिसमन्तात्सयः, नितरां सयः, विशेषेण वा सयः, परिसिनोति स्म ॥ सोश्च ङश्च सोडौ, न विद्यते सोडौ ययोस्तावसोङौ, सिवूश्च सहश्च सिवूसहौ, असोडौ च तो सिवूसही च, असोङसिवूसहौ च स्सट् च तेषाम् ॥ परिनिवेरित्यभिसम्बध्यते । परिष्करोति, विष्किर इत्यत्र — सम्परेः कृगः स्सडि'तिस्सट् , अनेन षः। परिसोढ इति सहस्य सो विषयत्वान्न षः। मा परि.
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy