SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ सिद्धमलघुवृत्तौ [ द्वितीयाध्यायस्य वर्जनं किम् ? व्यतस्तम्भत्, प्रतिस्तब्धः, निस्तब्धः ॥ अवाञ्च्चाऽऽश्रयोविदूरे ॥ ४२ ॥ अवादुपसर्गात्परस्य स्तम्भः स आश्रयादिषु गम्यमानेषु द्वित्वेऽप्यय्यपि षू स्यात्, ङविषयश्चेत्स्तम्भिर्न स्यात् । आश्रय आलम्बनम् । दुर्गमवष्टभ्नाति, अवतष्टम्भ, अवाष्टभ्नाद्वा । ऊर्ज और्जित्यम् । अहो ! वृषभस्यावष्टम्भः । अविदूरमासन्नमदूरासन्नं च । अवष्टब्धा शरदवष्टब्धा सेना । चोऽनुक्तसमुच्चये, तेन उपष्टम्भः । अङ इत्येव ? अवातस्तम्भत् ॥ व्यवात्स्वनोऽशने ॥ ४३ ॥ वेरवाच्चोपसर्गात्परस्य स्वनः सोऽशने भोजने द्वित्वेऽप्यय्यपि षू स्यात् । विष्वणति, अवष्वणति । विषण्वाण, अवषष्वाण । व्यष्वणत्, अवाष्वणत् । व्यषिष्वणत्, अवाषिष्वणत् । अशन इति किम् ? विस्वनति मृदङ्गः ॥ सदोऽप्रतेः परोक्षायां त्वादेः ॥ ४४ ॥ प्रतिवर्जो - पसर्गस्थान्नाम्यादेः परस्य सदः सो द्वित्वेऽप्यय्यपि पू स्यात्, परोक्षायां तु द्वयुक्तौ सत्यामादेः पूर्वस्यैव । निषीदति, विषाषद्यते, व्यषीदत् । परोक्षायां त्वादेरेव ! निषसाद । अप्रतेरिति किम् ? प्रतिसीदति ॥ २४४ उपसर्गात्, द्वित्वे, अट्यपीत्यनुवर्त्तन्ते । स्तम्भू, तिबू, श्राप्रत्ययः 'नो व्यञ्जनस्यानुदित' इत्युपान्त्यनलोपः, अनेन पः, इति विष्ट - भ्नाति । विष्टम्भन्तं प्रायुङ्केति व्यतस्तम्भत्, णिगि, दिवि, डेरूपम् । ङविषयत्वादत्र न षः ।। अवात् पञ्चमी, च, आश्रयश्च ऊर्जा चाविदूरश्न तस्मिन् ॥ चकारो छ इत्यस्यानुवृत्त्यर्थः, अनुक्तसमुच्चयार्थश्च तेनोपष्टम्भ इत्यादावुपादपि भवति । द्वित्वेऽट्यपीत्यनुवर्तेते ॥ विश्व अवश्च तस्मात्, स्वनः षष्ठी, अशने ॥ द्वित्वेऽपि, अट्यपीति सम्बध्येते, न त्वङ इति, तत्र चकारेणाऽनुकृष्टत्वात् । विष्वणति सशब्दं भुङ्के, भुञ्जानः कञ्चिच्छब्दं करोतीति वाऽर्थः । विस्वनतीति, विविधं शब्द करोतीत्यर्थः ॥ सदः षष्ठी, न प्रतिरप्रतिस्तस्मात् परोक्षायां, तु, आदेः षष्ठी ॥ द्वित्वेऽपि, अट्यपि, इति पदद्वयं वर्त्तते । षलं विशरणे "
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy