SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः] अवचूरिपरिष्कारसहितायाम् । २४३ ष्टौति, दुःष्टवम् , पर्यष्टौत् । स्तुम् , अभिष्टोभते, पर्यष्टोभत । अद्वित्व इति किम् ? अभिसुसूषति ॥ स्थासेनिसेधसिचसञ्जां द्वित्वेऽपि ॥४०॥ उपसर्गस्थान्नाम्यादेः परेषां स्थादीनां सः ष् स्यात्, द्वित्वेऽप्यव्यपि। अधिष्ठास्यति, अघितष्ठी, अध्यष्ठात् । अभिषेणयति, अभिषिषणयिषति, अभ्यषेणयत् । प्रतिषेधति, प्रतिषिषेधिषति, प्रत्यषेधत् । अभिषिवति, अभिषिषिक्षति, अभ्यषिञ्चत् । अभिषजति, अभिषषञ्ज, अभ्यषजत् ॥ अङप्रतिस्तब्धनिस्तब्धे स्तम्भः ॥४१॥ उपसर्गान्नाम्यादेः परस्य स्तम्भस्सो द्वित्वेऽप्यव्यपि ष् स्यात् , न चेत् स्तम्भिप्रतिस्तब्धनिस्तब्धयोश्च स्यात् । विष्टम्नाति, वितष्टम्भ, प्रत्यष्टभ्नात् । डादि न्यायस्य व्यभिचारित्वज्ञापनात् । ततश्च व्यवधायित्वसम्भावनयाऽटो ग्रहणम् । एवं पर्यषणोदित्यादौ 'कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चादृद्धिस्तद्बाध्योऽट्चे'ति न्यायोऽपि न प्रवर्तते, अट्यपीत्युक्तः । अन्यथा षत्वस्य प्रथममेव भवनात् पश्चादटि रूपसिद्धेरट्यपीति व्यर्थ स्यात् । अड्व्यवधाने एव षत्वमिति भ्रमनिवारणार्थमपिशब्दोपादानम् ॥ स्था च सेनिश्च सेधश्च सिचश्व सब्ज् च तेषाम् , द्वित्वे, अपि ॥ अट्यपि उपसर्गादिति च वर्तेते । सेने; अषोपदेशार्थम् , स्थासोरवर्णान्तव्यवधानेऽपि विध्यर्थम् , सिच् सञ्ज सेधां पणि नियमबाधनार्थम्, सर्वेषामड्व्यवधाने पदादौ च षत्वार्थ वचनम् । अधिष्ठास्यतीति, निमित्तनिमित्तिनोरव्यवधाने । अधितष्ठाविति, द्वित्वव्यवधाने । अध्यष्ठादिति, अव्यवधाने उदाहरणम् । एवमग्रेऽपि । अत्र द्वित्वेऽपीति वचनं 'स्वाङ्गमव्यवधायी'ति न्यायस्य व्यभिचारित्वं सूचयति, अन्यथा द्वित्वे कृते सति तस्य स्वागत्वेनाव्यवधाय. कत्वाद् द्वित्वेऽपीति वचनं निरर्थकं स्यात् ॥ ङश्च प्रतिस्तब्धश्च निस्तब्धश्च, न ङप्रतिस्तब्धनिस्तब्धस्तस्मिन् , स्तम्भः षष्ठी ॥
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy