________________
२४२
feat लघुवृत्तौ
[ द्वितीयाध्यायस्य
1
किम् ? सिषेव । षत्वं किम् ? सुषुप्सति ॥ सञ्जेर्वा ॥ ३८ ॥ ण्यन्तस्य सोर्नाम्यादेः परस्य सः षणि घ् वा स्यात् । सिषञ्जयिषति, सिसञ्जयिषति ॥ उपसर्गात्सुरसुचसो स्तुस्तु भोऽय्यप्यद्वित्वे ॥ ३९ ॥ द्वयुक्ताभावे सुनोत्यादेः स उपसर्गस्थान्नाम्यादेः परस्य प् स्यात्, अङ्ग्व्यवधानेऽपि । सुग्, अभिषुणोति, निःषुणोति, पर्यषुणोत् । सुव, अभिषुवति, पर्यषुवत् । सो, अभिष्यति, पर्यष्यत् । स्तु, अभिषत्वमित्य निष्टनियम निवारणाय तद्ग्रहणम् । सुसूषतीति, पुंग्ट् अभिवे सोतुमिच्छति, सुसूषति 'स्वरहने 'ति दीर्घः, षणि यदि षत्वं तर्हि णिस्तोरेवेति नियमादत्र 'नाम्यन्तस्थे ' त्यनेनापि न षत्वम् । एवकाराभावे एवंविधनियमाभावा'न्नाम्यन्तस्थे'ति षत्वं प्रसज्येत ॥ सखेः षष्ठी, वा । णेरनुवृत्तिः । सञ्जरितीकारान्त निर्देशात् ण्यन्तस्य पञ्जर्महणम् । ष सङ्गे, पञ्जन्तं प्रयुङ्क्ते, सञ्जयितुमिच्छति, 'तुम' सन्, द्वित्वम्, इट्, 'नाम्यन्तस्थे 'ति सनः षत्वम्, अनेन च धातोः सस्य वा षः उपसर्गात्, सुक् च सुवश्च सोश्च स्तुश्च, स्तुभू च तस्य, अटि सप्तमी, अध्यव्ययम्, न द्वित्वमद्वित्वं तस्मिन् ।। 'शिनान्तरेऽपी' त्यधिकारात् निःषुणोतीत्यत्र विसर्गव्यवधानेऽपि षः । अभिषुवति पूत् प्रेरणे, 'तुदादेः श:' । अभिष्यति, पोंचू अन्तकर्मणि । ष्टुंगु स्तुतौ, अभिष्टौति । स्तम्भुस्तुम्भू सौत्रौ धातू, अभिष्टो भते । सुगिति गकारेण निर्देशात् पुंक प्रसवे, सुं प्रसवैश्वर्ययोरित्यनयोर्न ग्रहणं किन्तु पुंगूट अभिषव इत्यस्य । सुवेति शनिर्देशात् पूङौक् षूङौच् इत्यनयोश्च न ग्रहणम् । शवाऽनुबन्धेन निर्देशाच्च यङ्लुबि नानेन षत्वम् । पूजायां सोः पूजातिक्रमयोश्चातेरुपसर्गत्वाभावात् सुस्तुतं अतिस्तुतमित्यादौ नानेन षत्वम् । पर्यषुणोत्, अत्राड्व्यवधानेऽपि षत्वं भवति । नन्वट्ग्रहणं किमर्थं 'आगमा यद्गुणीभूतास्तग्रहणेन गृह्यन्ते' इति न्यायात् सुग् ग्रहणेनाऽऽगमयुक्तस्यापि सुगो ग्रहणसम्भवेनाटा व्यवधानाभावादिति चेन्न, अनेनैवाग्रहणेनोक्त