________________
तृतीयपादः ] अवरिपरिष्कारसंहितायाम् । २४१ पत् ॥ घस्वसः ॥ ३६ ॥ नाम्यादेः परस्य घस्वसोः सः पू स्यात् । जक्षुः, उषितः । णिस्तोरेवाऽस्वदस्विदसहः षणि ॥३७॥ स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सो नाम्यादेः परस्य षत्वभूते सनि ष् स्यात् । सिषेवयिषति, तुष्टूपति । स्वदादिवर्जनं किम् ? सिस्वादयिपति, सिस्वेदयिषति, सिसाहयिषति । एवेति किम् ? सुसूपति । षणीति व्यवहितत्वात् , पूर्व कृतमपि षत्वं परस्मिन्नडागमे कर्तव्ये णषमसदित्यनेनासिद्धं भवति ।। घस् च वश्च तस्य ॥ निमित्तविशेषस्यानुक्तत्वात् षत्वस्य सामान्यं निमित्तमनुवृत्तिलब्धं नाम्यादि विवक्षितम् । घरलं अदने, वसिक् आच्छादने, अदादिः, अत्र 'अदायनदाद्योः. अनदादेरेव ग्रहणमिति न्यायेन भ्वादेरेव वसोर्ग्रहणम् । घस 'परोक्षा' उस् , 'द्विर्धातुरिति द्वित्वम् , 'व्यञ्जनस्या' गहोर्जः' गस्य जः, 'गमहने' त्यलोपः, 'अघोषे' घस्य कः, अनेन षः, जक्षुः। पाणिनीये घस्धातोः भ्वादेः परोक्षायां रूपं न भवति । अत्र तु घसिः भ्वादेाह्यो न त्वदादेः, तस्याऽऽदेशरूपत्वेन 'नाम्यन्तस्थे'त्यनेनैव षत्व सिद्धेः ॥ णिश्च स्तुश्च तस्य, एव, स्वदश्च स्विदश्च सह् च, न स्वदस्विदसह तस्य, षणि सप्तमी । सीव्यन्तं प्रयुङ्क्ते सेवयति, सेवयितुमिच्छति सिषेवयिषति, सनि इटि द्वित्वे पूर्वस्य हूस्वे सनः 'नाम्यन्तस्थेति षत्वे, सिसेवयिषति, अनेन धातोः सस्य षः । स्तोतुमिच्छति तुष्टषति, स्तुधातोः पनि द्वित्वे 'अघोषे शिटः' आद्यसलोपे, 'स्वरहनेति दीर्घ सनः 'नाम्यन्तस्थेति षत्वे, अनेनाद्यसकारस्य च षः, ष्टुत्वम्। अत्र स्तौतिसाहचर्यात् स्वदादिपर्युदासेन सदृशग्रहणाच्च ण्यन्तानामपि धातुपाठेषकारादीनां धातूनां ग्रहणम् । तथा च 'नाम्यन्तस्थे'ति कृतसकारस्य षत्वे प्रापे नियमार्थमिदं सूत्रम् । नियमश्च निस्तोरेव षणि षत्वं नान्य स्येति विवक्षितो यद्यप्येवकाराभावेऽपि लभ्यते, तथापि णिस्तोः षण्येव