________________
यायस्य
२४०
सिद्धहेमलघुवृत्तौ। [द्वितीयाध्यायस्य दिविष्ठः ॥ निर्दुस्सोः सेधसन्धिसाम्नाम् ॥ ३१ ॥ एभ्यः परेषां सेधादीनां सः समासे ' स्यात् । निःषेधः, दुःषेधः, सुषेधः । निःषन्धिः, दुःषन्धिः, सुषन्धिः । निःषाम, दुःषाम, सुषाम ।। प्रष्ठो. ऽग्रगे ॥३२॥ प्रात्स्थस्य सः ष् स्यात् , अग्रगामिन्यथें । प्रष्ठोऽग्रगः ।। भीरुष्ठानादयः ॥ ३३ ॥ एते समासे कृतषत्वाः साधवः स्युः । भीरुष्ठानम् , अङ्गुलिषङ्गः ॥ हस्वान्नाम्नस्ति ।। ३४ ॥ नानो विहिते तादौ प्रत्यये ह्रस्वान्नामिनः परस्य सः ष् स्यात् । सर्पिष्टा, वपुष्टमम् । नामिन इत्येव ! तेजस्ता ।। निसस्तपेऽनासेवायाम् ॥ ३५ ॥ निसः सस्तादौ तपतौ परे ष् स्यात्, पुनः पुनः करणाभावे । निष्टपति स्वर्णं सकृदग्नि स्पर्शयतीत्यर्थः । तीत्येव ? निरत. आम्बष्ठः । लिष्टनिर्देशादुभाम्यामपि भवति । सव्ये तिष्ठति, अपति. ष्ठति, द्वयोस्तिष्ठति, त्रिषु तिष्ठति, एवमरे, सर्वत्र स्थापास्नात्रः क' इति कप्रत्ययः ॥ निश्च दुश्च सुश्च तस्मात् , सेवश्च सन्धिश्च साम च तेषाम् ।। वचनभेदाद् यथासङ्ख्याभावः। निश्चितः सेधः निषेधः, दुष्टः सेधः, शोभन: सेधः । सन्धानं सन्धिः, निश्चिता सन्धिः निःषन्धिः, दुष्टा सन्धिः, शोभना सन्धिः । एवं निश्चितं साम इत्यादि । प्रष्ठः प्रथमा, अग्रे गच्छतीति अगस्तस्मिन् । प्रतिष्ठति इति प्रष्ठः, ' उपसर्गादातो ङ' । भीरुष्ठानं आदिर्येषान्ते भीरुष्ठा. नादयः ॥ भीरूणां स्थानं भीरुष्ठानं, अङ्गुलीनां सङ्गोऽङ्गुलिषङ्गः ।। इस्त्रात्, नाम्नः पञ्चमी, ति सप्तमी ॥ तिपदेन तत्त्वतस्त्यतयतरप्तमपां ग्रहणम् । सर्पिषो भावः सर्पिष्टा, बहूनां मध्ये प्रकृष्टं वपुः वपुष्टमम् । तेजसो भावः तेजस्ता ॥ निसः षष्ठी, तपे सप्तमी, न आसेवा अनासेवा, तस्याम् ।। तीति वर्तते । पुनः पुनः करणमासेवा ॥ तप इति शवा निर्देशस्तेन यङ्लुबि षत्वं न भवति, शवा निर्दिष्टत्वात् निरतपत्, अत्र तकारादितपतिपरत्वं नास्ति, अटा