SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः ] अवचूरिपरिष्कारसहितायाम् । २३९ समासे ष् वा स्यात् , नाम्नि । रोहिणिषेणः, रोहिणिसेनः । इत इति किम् ? पुनर्वसुषेणः ॥ विकुशमिपरेः स्थलस्य ॥२८॥ एभ्यः परस्य स्थलस्य सः समासे ष् स्यात् । विष्ठलं कुष्ठलं शमिष्ठलं परिष्ठलम् ॥ कपेर्गोत्रे ॥२९॥ कपेः परस्य स्थलस्य सः समासे ष् स्यात्, गोत्रे वाच्ये । कपिष्ठल ऋषिः ॥ गोऽम्बाऽऽम्बसव्यापद्वित्रिभूम्यग्निशेकुशङ्ककमञ्जिपुञ्जिर्हिःपरमेदिवः स्थस्य ॥ ३० ॥ एभ्यः परस्य स्थस्य सः समासे स्यात् । गोष्ठम् , अम्बष्ठः, आम्बष्ठः, सव्यष्ठः, अपष्ठः, द्विष्ठः, त्रिष्ठः, भूभिष्ठः, अग्निष्ठः, शेकुष्ठः, शङ्कुष्ठः, कुष्ठः, अङ्गुष्ठः, मञ्जिष्ठः, पुञ्जिष्ठः, बर्हिष्ठः, परमेष्ठः, नाम्नी'ति ह्रस्वः । पुनर्वसुषेणेति पूर्वसूत्रेण षत्वम् ॥ विश्व कुश्च शमिश्च परिश्च तस्मात् , स्थलस्य ॥ नाम्नीति निवृत्तं विष्ठलादिशब्दात् संज्ञा या अप्रतीतेः, उत्तरत्र गोत्रग्रहणाद्वा । वीनां पक्षिणां स्थलमिति विष्ठलम् । कौ पृथिव्यां स्थलम् , कुत्सितं वा स्थलं कुष्ठलम् । शमीनां स्थलम् ‘ड्यापो बहुलमिति हूस्वः ।. सूत्रे हूस्वस्य शमिशब्दम्योच्चारणात् दीर्घान्न भवति शमीस्थलम् , बाहुलकत्वान्न हस्वः ॥ कपः पञ्चमी, गोत्रे ॥ कपिभिराऽऽवृतं स्थलमस्येति सः कपिष्ठलः । तन्नाम्ना गोत्रप्रवर्त्तयिता कश्चित् , गोत्रमिह लौकिक गृह्यते, न तु स्वापत्यसन्तानस्येत्या दिलक्षणं शास्त्रीयम् । लोके चाऽऽद्यपुरुषा येऽपत्य सन्ततेः प्रवर्त्तयितारो यन्नाम्नोऽपत्यसन्ततिळपदिश्यते, तेऽभिधीयन्ते ॥ गोश्व अम्बश्व आम्बश्व सव्यश्च अपश्च द्विश्च त्रिश्च भूमिश्च अग्निश्च शेकुश्वं शङ्कुश्व कुश्च अङ्गुश्च मञ्जिश्व पुञ्जिश्व बर्हिश्च परमे च दिविश्व तस्मात् , स्थस्य ॥ स्थ इति कप्रत्ययान्तस्यानुकरणं तेन भूमिस्थितं गोस्थानमित्यादौ न पत्वम् । गावस्ति. ष्ठन्त्यस्मिन्निति गोष्ठम् , 'स्थादिभ्यः कः' इति कप्रत्ययः । अम्बायां तिष्ठति अम्बष्ठः । अम्बायां भवः आम्बः, आम्बे तिष्ठतीति
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy