________________
२३८
सिद्धहेमलघुवृत्तौ [द्वितीयाध्यायस्य ए स्यात् , सूत्रे वाच्ये । प्रतिष्णातं सूत्रम् । प्रत्ययान्तोपादानं किम् ? प्रतिस्नातृ सूत्रम् ॥ स्नानस्य नाम्नि ॥ २२ ॥ प्रतेः परस्य स्नानस्य सः समासे ष् स्यात् , सूत्रविषये नाम्नि । प्रतिष्णानं सूत्र. मित्यर्थः । वेः स्त्रः ॥२३॥ वेः परस्य स्तृसस्य समासे ष् स्यात् , नाम्नि । विष्टरो वृक्षः, विष्टरं पीठम् ॥ अभिनिःष्टानः ॥ २४ ।। अभिनिर्ध्या स्तानः समासे कृतषत्वो निपात्यते, नाम्नि । अभिनिःष्टानो वर्णः ॥ गवियुधेः स्थिरस्य ।। २५ ॥ आभ्यां परस्य स्थिरस्ण सः समासे ष् स्यात्, नाम्नि । गविष्ठिरः, युधिष्ठिरः ॥ एत्यकः ॥ २६ ॥ कवर्जान्नाम्यादेः परस्य स एति परे समासे ष् स्यात् , नाम्नि । हरिषेणः, श्रीषेणः । अक इति किम् ? विप्वक्सेनः ।। भादितो वा ॥ २७ ॥ नक्षत्रवाचिन इदन्तात्परस्य स एति परे व्याकरणादेश्च सूत्रं गृह्यते, ऊर्णादिसूत्रं झालनेन शुद्धम् , व्याकरणादिसूत्रन्तु अतिव्याप्त्यादिदोषाभावेन शुद्धमित्यर्थः । अन्यप्रत्यय. निवृत्त्यर्थं प्रत्ययान्तोपादानम् , तेन प्रतिस्नातृ सूत्रमित्यादौ न षः ।। स्नानस्य, नाम्नि ॥ प्रतेः सूत्रे इत्यपि वर्तेते । प्रतिस्नातीति प्रतिष्णानं 'नद्यादिभ्योऽन:' ॥ वेः पञ्चमी, स्त्रः षष्ठी ।। नाम्नीति वर्तते । विस्तीर्यते इति विष्टरः । 'युवर्णवृवशरणे'ति अल्प्रत्ययः । विस्तृणाति उपविष्टुः सुखमिति विष्टरम् ॥ अभिनिःष्टानः ॥ नाम्नीति वर्तते । अभिनिष्टानो वर्णः, एषा विसर्गस्य संज्ञा, वर्णमात्रस्येत्यन्ये ।। गविश्च युधिश्च तस्मात् , स्थिरस्य ॥ नाम्नीति वर्तते । गविष्ठिरः, सूत्रनिर्देशादलुप् समासः । 'अद्यञ्जना 'दित्यलुप् समासः ।। एति सप्तमी, न क् अक् तस्मात् ।। नाम्नीति वर्तते । हरिः हरयो वा सेनायां यस्य स हरिषेणः, विष्वग्व्यापिनी सेना यस्य स विष्वक्सेनः ॥ भात् पञ्चमी, इतः पञ्चमी, वा । नाम्नीति वर्तते । रोहिणी सेनायां यस्य स रोहिणिषेणः ‘ड्यापो बहुलं