________________
तृतीयपादः] अवरिपरिष्कारसहितायाम् । यत्कखपर्फ तस्मिन्परे इसुस्प्रत्ययान्तस्य रस्य ष् न स्यात् । सर्पिकालकम् , यजु पीतकम् । एकार्थ इति किम् ? सर्पिष्कुम्भे, सर्पि कुम्भे । अक्रिय इति किम् ? सप्पिष्क्रियते, सर्पिः क्रियते ॥ समासेऽसमस्तस्य ॥ १३ ॥ पूर्वेणाऽसमस्तस्येसुस्प्रत्ययान्तस्य रस्य कखपफि ष् स्यात् , निमित्तनिमित्तिनौ चेदेकत्र समासे स्तः । सर्पिष्कुम्भः, धनुष्फलम् । समास इति किम् ? तिष्ठतु सर्पिः पिब त्वमुदकम् । असमस्तस्येति किम् ? परमसर्पिःकुण्डम् ॥ भ्रातुष्पुत्रकस्कादयः ॥ १४ ॥ भ्रातुष्पुत्रादयः कस्कादयश्च कखपफि रस्य यथासङ्ख्यं कृतषत्वसत्वाः साधवः स्युः । भ्रातुष्पुत्रः, परमयजुष्पात्रम् , कस्कः, कौतसर्पिः कालकमित्यादौ न षत्वम् , 'अधात्वभिहितं समानाधिकरणमसमर्थवत्' धातुप्रकृतिकप्रत्ययप्रयोज्यत्वाभाववति या विशेष्यता तन्निरूपिता या सम्बन्धानवच्छिन्ना प्रकारता, तत्प्रयोजकं तन्निरूपितविशेप्यताप्रयोअकं वा व्यपेक्षारूपसामर्थ्याभाववदित्युक्तेः । धातुप्रकृतिकप्रत्ययप्रयोज्यत्वाभावत्त्वस्य विशेष्यतायां विशेषणात् सर्पिष्पीयत इत्यादौ नासामर्थ्यम् , तेपदप्रयोज्यविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्वस्य सर्पिः पदे सत्त्वेऽपि तेपदार्थकर्मनिष्ठविशेष्यतायां धातुप्रकृतिकतिप्रत्ययप्रयोज्यत्वाभावस्याभावादिति वदन्ति॥ समासे, समस्यते स्मेति समस्तं, न समस्तमसमस्तं तस्य ।। अनुवृत्तिः पूर्ववत् । सर्पिषः कुम्भः, धनुषः फलम् । परमसर्पिः कुण्ड. मित्यत्र इसन्तस्य शब्दस्य परमशब्देन समस्तत्वान्नानेन षः, नवा पूर्वेण, समासे सति अपेक्षाया असत्त्वात् ॥ भ्रातुष्पुत्रश्च कस्कश्च, तौ आदिर्येषान्ते ॥ भ्रातुष्पुत्र इति षष्ठीसमासे 'ऋतां विद्यायो. निसम्बन्धे' इति षष्ठया अलुप् । परमं च तद् यजुश्व, परमयजुषः पात्रम् । कस्मादिति कुतः, वीप्सायां कुतस् द्विवचनं, कुतः कुत आगत इति कौतस्कुतः । 'तत आगते' इत्यण् , वृद्धिश्च ॥