________________
२३४ सिद्धहेमलघुवृत्ती द्वितीयाध्यायस्य यान्तस्य रस्य कखपफि वा स्यात् , स्थानिनिमित्तयोरपेक्षा चेत् । सर्पिष्करोति, सर्पि: करोति । धनुष्खादति, धनु खादति । अपेक्षायामिति किम् ? परमसर्पिर कुण्डम् ॥ नैकार्थेऽक्रिये ॥१२॥ न विद्यते क्रियाप्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे तुल्याधिकरणे पदे तन्निरूपितविषयता पुरुष, तत्प्रयोजकपदं पुरुषपदं तद्धटितमस्ति, तथा राजपदप्रयोज्यविषयता राजनि, तन्निरूपितत्वाभाववद्विषयता उदासीनघटादौ, तत्प्रयोजकं पदं घटादि तदघटितमप्यस्ति, तथा राजपदनिष्ठशक्तों ग्रहस्तत्प्रयोज्यशको राजपुरुष इति समस्तपदसम्बन्धिनी सद्गृहविषयशक्तिः सैव तत्पर्याप्त्यधिकरणं राजपुरुष इति समस्तपदं तत्पर्याप्त्यनधिकरणञ्च राजपुरुष इति वाक्यमिति लक्षणसमन्वयः । तिष्ठतु सर्पिः, पिष त्वमुदकमिति व्यपेक्षाविरहिवाक्ये सर्पिपदप्रयोज्यविषयतानिरूपितत्वाभाववद्विषयताप्रयोजकपदं पिबादिकम् , तद्घटितत्वमेवास्तीति न तत्र व्यपेक्षा । परमसर्पिःकुण्डमिति समासे तु सर्पिःपदनिष्ठशक्तिग्रहप्रयोज्यसमासशक्तिग्रहविषयीभूतशक्तिपर्याप्त्यधिकरणत्वमेवास्तीति न तत्र व्यपेक्षा । इयञ्च वाक्य एव सम्भवति सैव चात्र सूत्रेऽपेक्षापदेन विवक्षिता । एकार्थीभावश्च समुदायशक्त्या परस्परं निरूप्यनिरूपकभावाऽऽपन्नविषयताप्रयोजकत्वे सत्येकार्थोपस्थितिजनकत्वम् । ईदृशमेकार्थीभावमाश्रित्य प्रत्युदाहरणम् ।। न, एकोऽर्थो यस्य स एकार्थस्तस्मिन् , न विद्यते क्रिया यस्य तस्मिन् ॥ कखपफि इसुसो र ष इति वर्तन्ते । वेसुसोऽपेक्षायामित्यस्याऽयं प्रतिषेधो नाऽन्यस्य । सर्पिस् कालमेव काल. कम्, 'कालात्' कः प्रत्ययः, यजुस् पीतेन रक्तम्, पीतकम् , 'नीलपीतादकमिति कः प्रत्ययः । कालकं पीतकमिति गुणवचनम् , अक्रियावाचि । सर्पिः कालकपदवोभिन्नार्थत्वे सति समानविभक्तित्वात् तुल्याधिकरणमेकार्थम् , अतः षत्वप्रतिषेधः । पाणिनीये तु