________________
तृतीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
सुजन्तस्थस्य रस्य कखपफि घ् वा स्यात् । द्विष्करोति द्विप्रकरोति, द्विः करोति । चतुष्फलति, चतु, फलति, चतुः फलति । कखपफीति किम् ? द्विश्चरति ॥ वेसुसोऽपेक्षायाम् ॥ ११ ॥ इसुस्प्रत्य
२३३
|
न तु रेफस्य विशेषणम्, तेन चतुष्पचतीत्यत्राऽप्यनेन विकल्पः, न ह्यत्र सुच: स्थाने रेफः ' रात्स' इति सुचो लोपात् । तल्लोपेऽपि स्थानिवद्भावेन सुजन्त एवाऽयं चतुः शब्दः । द्वौ वारौ करोति द्विष्करोति, 'द्वित्रिचतुरः सुच्' । चत्वारो वाराः फलति चतुष्फलति, पक्षे जिह्वामूलीयोपध्मानीयविसर्गाः भवन्ति । वा, इश्व उव तस्य, अपेक्षायाम् ॥ रः कखपफि ष इत्यनुवर्तते । इस् प्रत्ययः उणादिकस्तत्साहचर्यात् उसोऽप्यौणादिकस्य ग्रहणम्, न तु त्यादेरुसः । इसुसौ ' प्रत्ययाऽप्रत्ययोर 'ति, 'लक्षणप्रतिपदोक्तयोरिति ' अर्थवद्ग्रहणे नाऽनर्थकस्येति वा न्यायेन, प्रत्ययौ ग्राह्यौ । तेन मुनिः करोतीत्यादौ न त्वम् | इसुसौ प्रकृतेर्विशेषणं तेन तदन्तविधिः, इसुस्प्रत्ययान्तप्रकृत्यत्रयवरेफस्येत्यर्थः । परम सर्पि कुण्डम्, अत्र नाऽपेक्षा, समासे समर्थपदानामेकप्रयत्नोच्चार्यत्वेनाऽपेक्षानिवृत्तेः, भिन्नयोरेव हि अपेक्षा, करोतीत्युक्ते किं करोति ? सर्पिः करोतीत्यादि, परम सर्पि कुण्डमित्यत्र त्वेकार्थीभावः, अतो नाऽपेक्षा । सामर्थ्यं हि द्विविधं, एकार्थीभावः व्यपेक्षा च । तत्र व्यपेक्षा पृथक्पदानामाकाङ्क्षादिसहकारेण विशिष्टार्थप्रतिपत्तिः, एवञ्च यत्किञ्चित्पदविशिष्टत्वं व्यपेक्षात्वं, वैशिष्टयश्च स्वघटितत्वम्, स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकपदघटितत्वम्, स्वप्रयोज्यविषयतानिरूपितत्वाभाववद्विषयताप्रयोजकपदाघटित्वम्, स्वनिष्ठशक्तिग्रहप्रयोज्यशक्तिमविषयीभूतशक्तिपर्यात्यनधिकरणत्वम्, एतचतुष्टयसम्बन्धेन । यथा राज्ञः पुरुष इति वाक्यं राजपद्घटितमस्ति, तथा राजपदप्रयोज्यविषयता राजनि,
३०
·