SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २३२ सिद्धमलघुवृत्तौ [ द्वितीयाध्यायस्य स्वः पाशम् || रोः काम्ये ॥ ७ ॥ अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये स् स्यात् । पयस्काम्यति । रोरिति किम् ? अहः काम्यति ॥ नामिनस्तयोः षः ॥ ८ ॥ तयोः प्रत्ययस्थे कखपफि, रोरेव काम्ये नामिनः परस्य रस्य ष् स्यात् । सर्पिष्पाशम्, धनुष्कल्पम्, घानुष्कः, सर्पिष्काम्यति । नामिन इति किम् ? अयस्कल्पम् । रोः काम्य इत्येव ? गी৺काम्यति ॥ निर्दुर्बहिराविष्प्रादुश्चतुराम् ॥ ९ ॥ निरादीनां रस्य कखपफ घ् स्यात् । निष्कृतं दुष्कृतं बहिष्पीतमाविष्कृतं प्रादुष्कृतं चतुष्पात्रम् ॥ सुचो वा ॥ १० ॥ निन्द्यं स्वः स्वःपाशम्, अत्राव्ययीभावातिरिक्ताव्ययस्यैव वर्जनं तेनोपपयस्काम्यतीत्यादौ सत्वसिद्धिः । अत्र प्रत्ययपदेन पाशकल्पककाम्याः ग्राह्याः, अन्यस्य च प्रत्ययस्याभावात् । रोः षष्ठी, काम्ये । अनव्ययस्य रः सः प्रत्यये इत्यनुवर्तन्ते । पूर्वसूत्रेणैव सिद्धे उक्तनियमार्थमिदं सूत्रम् । यदि रेफस्य रोः सत्वं स्यात्तर्हि काम्यप्रत्यये परे एवेति, विपरीत नियमस्तु न भवति वर्चस्केति निर्देशात्, तत्र हि कप्रत्यये परे ऽपि रोः सत्वं कृतम्, प्रत्यये रोः काम्ये चेत्येक योगाकरणाद्वा । पय इच्छति, अहरिच्छति ॥ नामिनः पञ्चमी, तयोः सप्तमी, षः प्रथमा । पूर्वसूत्रद्वय निर्दिष्टप्रत्ययास्तत्पदेन परामृश्यन्ते । अनव्ययस्येति वर्तते । निन्द्यं सर्पिः सर्पिष्पाशम्, ईषदपरिसमाप्तं धनुधनुष्कल्पम्, धनुः प्रहरणमस्य धानुष्कः, प्रहरणमितीकण्, ऋवर्णोवर्णैतीकारलोपः । प्रत्यये इति सूत्रे पाशकल्पका इत्युपलक्षणं तेन इकणोऽपि ग्रहणम् । इकारे लुप्ते वाऽयमपि क एवेतिं पूर्वसूत्रविषयत्वात्पत्वम् | काम्ये रोरेवेति नियमाद्गी काम्यतीत्यत्र न रेफस्य षः ॥ निश्व दुश्व बहिश्चाविश्व प्रादुश्च चतुर्च तेषाम् । कखपफि रः स इत्यनुसम्बध्यते । बहुवचननिर्देशो निस्दुसोर्निर्दुरोश्च परिग्रहार्थम् । निष्क्रियते स्म निष्कृतमेवमग्रे । चतुणां पात्राणां समाहारश्चतुष्पात्रम् ॥ सुच: षष्ठी, वा ॥ पूर्ववदनुवृत्तिः । नाम्नो विशेषणं सुच् इति, तदन्तविधिश्च । 1 1
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy