________________
सृबीयपादः ] अवरिपरिष्कारसहितायाम् । २३१ म्भः, अयस्कुशा, अयस्कर्णी, अयस्पात्रम् । अत इति किम् ? वाःपात्रम् । अनन्ययस्येति किम् ? स्वःकारः। समासैक्य इत्येव? उपपयःकारः॥ प्रत्यये ॥६॥ अनव्ययस्य रस्य प्रत्ययविषये कखपफि स् स्यात् । पयस्पाशं पयस्कल्पं पयस्कम् । अनव्ययस्येत्येव ? इत्यनुवर्तन्ते । अयः करोतीत्ययस्कृत विप्, स्युक्तं कृतेति समासः, अनेन रस्य सः, यशः कामयते यशस्कामः, 'शीलिकामिभिक्षे 'ति णः प्रत्ययः । पयसः कंसः पयस्कंसः, एवमग्रेऽपि । अत्र सूत्रे कृकम्योः प्रत्ययान्तयोर्ग्रहणात्कमिधातोः सप्रत्ययान्तेन निष्पन्नस्य कंसशब्दस्यापि कमिग्रणेनैव प्राप्तेः कंसग्रहणं व्यर्थं सज्ज्ञापयति उणादयोऽव्युत्पन्नानि नामानीति, तथा चाव्युत्पन्न एवायं कंसशब्दो न तु कमिना व्युत्पन्नः । वाः पात्रं जलपात्रमित्यर्थः । स्वः करोतीति स्वकारः, कर्मणोडेण् । पयसः समीपमुपपयः करोतीत्युपपयःकारः, अत्राकारात्परोऽनव्ययसम्बन्धिरकारो नास्ति उपपय इत्यव्ययीभाव. समासत्वेनाव्ययत्वात् , अतः परमयशःकाम इति प्रत्युदाहरणं बोध्यम् , अत एव बृहद्वृत्तावुपपयःकारः परमयशःकाम इति प्रत्युदाहरणद्वयं प्रदर्शितम् । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणमिति न्यायेनाय. स्कुम्भी अयस्पात्रीत्यपि रूपे स्तः। अयः कुश इति रस्य सो न भवति, कुशेति लिङ्गविशिष्टस्यैव सूत्रे उपादानात् । अस्याः परिभाषाया अर्थस्तु स्वान्तत्वं स्वविशिष्टादित्वमुभयसम्बन्धेन स्त्रीप्रत्ययविशिष्टे स्वविशिष्टवर्तिनो नाममात्रवृत्तिविषयताप्रयोजकपदप्रतिपाद्यतावच्छेदकधर्मस्यानयाऽतिदेशः, उभयत्र वैशिष्ट्यं स्वाव्यवहितपूर्वत्वस्वनिष्ठविधेयतानिरूपितोद्देश्यताश्रयघटकत्वोभयसम्बन्धेन ॥ प्रत्यये । अनव्ययस्य कखपफि रः स इत्यनुवर्तते । निन्धं पयः पयस्पाशम् , निन्द्ये पाशप् , सो रुरनेन रस्य सः । ईषदपरिसमाप्तं पयः पयस्कल्पं अतमवादेरीषदसमाप्तेरिति कल्पपू प्रत्ययः।कुत्सितमल्पमज्ञातं वा पयः पयस्कम् ,