SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २३० सिरहेमलघुवृत्तौ । द्वितीयाध्यायस्य सम्बन्धिनो रस्य कखपफि स् स्यात् । पुंस्कोकिलः, पुंस्खातः, पुंस्पाकः, पुंस्फलम् || शिरोऽधसः पदे समासैक्ये ॥४॥ अनयो रेफस्य पदशब्दे परे सू स्यात् , समासैक्ये । शिरस्पदमधस्पदम् । समासेति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरः पदम् ॥ अतः कृमिकसकुम्भकुशाकर्णीपात्रेऽनव्ययस्य ॥ ५ ॥ आत्परस्याऽनव्ययस्य रस्य कादिस्थे कखपफि स् स्यात् , समासैक्ये । अयस्कृत्, यशस्कामः, पयस्कंसः, अयस्कुसिकयोश्च कृतयोयुत्पत्तिपक्षे का पयोः प्राप्तौ, अव्युत्पत्तिपक्षे च समासेऽसमस्तस्येति षत्वप्राप्तावनेन कखपफि रस्य सः पुंस्कोकिलः पुंस्कोकिलः, एवमग्रेऽपि । न च पुंसोऽशिट्यघोष इत्यत्रैव रत्वमपहाय सत्वं विधीयतां किमनेन सूत्रेणेति वाच्यम् , एतत्सूत्राभावे पुंश्वर इत्यादिरूपासिद्धिप्रसङ्गात् , सत्व विधानसामर्थ्यात् सो रुरित्यादेरप्रवृत्तेः । शिरश्वाधश्च शिरोऽधस्तस्य, पदे, एकस्य भाव ऐक्यं समासस्यैक्यं समासैक्य तस्मिन् । रः स इति वर्तेते । शिरसि पदं शिरस्पदं सप्तमी शौण्डायैरिति समासः । अधः पदमधस्पदम् , अव्ययं प्रवृद्धा. दिभिरिति समासः, सो रुरनेन सः । परमञ्च तच्छिरश्च परमशिरः परमशिरसः पदं परमशिरःपदं अनानेन न लः, समासे सत्यप्येकसमासाभावात् शिरोऽधःपदे उत्तरपदे न स्याताम् , अत्र तु शिरः पदस्योत्तरपदत्वान्न सत्वमिति तात्पर्य, अत्र कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्यय इति न्यायो न प्रवर्तते कादाचित्कत्वात् , अत एव प्रकृतसूत्रे कृत्रिमं विभक्त्यन्तं पदं व्युदस्याकृत्रिमं पदं पदशब्दस्वरूपमेव गृहीतम् , एवं समासे इत्युक्त्यैवैकवचनस्य विवक्षया समासैक्ये लब्धे ऐक्यग्रहणं उक्तार्थानामप्रयोग इति न्यायस्यानित्यतां सूचयति ॥ अतः पञ्चमी, का च कमिश्च कंसश्च कुम्भश्च कुशा च की च पात्रञ्च तत्तस्मिन् , नाव्ययमनव्ययं तस्य । कखपफि रः सः समासैक्ये
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy