________________
२३६
सिवहमेलघुवृत्ती [ द्वितीयाण्यायस्य स्कुतः ॥ नाम्यन्तस्थाकवर्गात्पदान्तः कृतस्य सः शिड़ा न्तरेऽपि ॥ १५ ॥ एभ्यः परस्य पदस्यान्तमध्ये कृतस्य कृतस्थस्य वा सस्य स्यात्, शिटा नकारेण चान्तरेऽपि । आशिषा, नदीषु, वायुषु, वधूषु, पितृषु, एषा, गोषु, नौषु, सिषेच, गीर्षु, हल्षु । शक्ष्यति, क्रुषु । शिड्नान्तरेऽपि, सपिःषु, यजूंषि । पदान्त इति किम् ? दधिसेक् । कृतस्येति किम् ? विसम् ।। समासेग्नेः स्तुतः नामी च अन्तस्था च कवर्गश्च तस्मात् , पदान्तः, कृतस्य, सः षष्ठी, शिट् च नश्च शिड्नौ, ताभ्यामन्तरं तस्मिन् , अपि ॥ ष इति वर्तते । कृतस्य कृतस्थस्य वेति सूत्रस्थकृतशब्दस्यैवाऽर्थः, केनचित्सूत्रेण कृतस्य, कृतसम्बन्धिनो वेति तदर्थः । आङ् उपसर्गात् शास्धातोः किपि, 'इसासः शासोऽव्यञ्जने 'ति शस, टायाम् अनेन षः, कृतसम्बन्धिन उदाहरणमिदम् । सिषेचपर्यन्तं नामिनः परस्योदाहरणम् । नदीषु इत्यादिकं कृतसम्बन्धिन एषेति कृतस्य । गीर्षु हल्षु इत्यन्तस्थायाः परस्य । शक्ष्यति, क्रुषु, इति कवर्गात् परस्य । सर्पिःषु, अत्र सस्य रत्वे विसर्गे च तस्य शिट्त्वात् तद्व्यवधानेऽपि षत्वम् । यजूंषीत्यत्र च 'शिड्हेऽनुस्वार' इति नित्यत्वादन्तरङ्गत्वाच्च कृते पत्वम् । यद्यपि नकारस्याऽवश्यमनुस्वारस्य भावात् अनुस्वारस्य च शिवेन शिड्महणेनैव सिद्धे मस्थानिकाऽनुस्वार. व्यावर्त्तनाय नकारोपादानम् , तेन पुंसीत्यादौ न पत्वम् । दधि. सेक्, अत्र वृत्तेरन्ते वर्तमानस्य षभिन्नकार्यविधान एव 'वृत्त्यन्तो. ऽसषे' इति पदत्वनिषेधात् सेक् , इत्यस्य पदत्वेन सकारो न पदम. ध्यगतः, किन्तु पदादिस्थ एव । बिसमिति ‘उणादयोऽव्युत्पन्नानि नामानी'ति वचनादव्युत्पन्नो ग्राह्यस्तेन सकारो न केनचित्कृतः । अधिकारश्चायमाऽऽषत्वविधेः ॥ समासे, अग्नेः पञ्चमी, स्तुतः षष्ठी ।। सः ष इत्यनुवर्तते, एवमग्रिमसूत्रेष्वपि । अग्निं स्तौतीति,