________________
द्वित्तीयपादः
अवचूरिपरिष्कारसहितायाम् ।
सुभिक्षं करोति || अविशेषणे द्वौ चास्मदः ॥ १२२ ॥ अस्मदो द्वावेकब्धार्थो बहुवद्वा स्यात्, अविशेषणे न चेत्तस्य विशेषणं स्यात् । आवां ब्रूवः, वयं ब्रूमः । अहं ब्रवीमि वयं ब्रूमः । अविशेषण इति किम् ? आवां गाग्र्यौ ब्रूवः । अहं चैत्रो ब्रवीमि ॥ फल्गुनीप्रोष्टपदस्य भे || १२३ || फल्गुनीप्रोष्ठपदयोर्भे नक्षत्रे वर्त्तमानयोर्द्वाचर्थो बहुवद्वा स्याताम् । कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः । कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः । भ इति किम् ? फल्गुनीषु
२२७
1
विशेषणसहितत्वान्न बहुवद्भावः ॥ विशिष्यतेऽनेक प्रकारान्तरेभ्योऽनेनेत्यनद्प्रत्यये विशेषणम्, न विशेषणमविशेषणं तस्मिन्, द्वौ, च, अस्मदः षष्ठी । चकारादेक इत्यस्यानुकर्षः । नन्वेकसङ्ख्याकप्रत्यात्मवचनत्वादस्मदः कथं द्वावर्थौ स्यातामिति चेन्न, आत्मत्वं हि यदा परत्रोपचर्यते तदा परस्याप्यस्मदर्थोपपत्तेरस्मदर्थस्य द्वित्वमुपपन्नम्, उपचर्यते हि 'अयं मे द्वितीय आत्माऽहमेवायमिति, त्वञ्चाहचावामित्येकशेषो वा । आवां ब्रूव इति, द्वयोर्मध्ये एकस्य वक्तृत्वेऽपि द्वयोरप्यभेदोपचाराद्वक्तृत्वं भाव्यम् । नाट्ये वयं दक्षा इत्यादौ तु दक्षा इति पदं न विशेषणवाचकं येनैकार्थस्यास्मदो बहुवद्भावो न भवेत्किन्तु विधेयपरम्, उद्देश्यतावच्छेदकस्यैव विशेषणत्वात् । वस्तुमात्रस्यैकानेकस्वभावत्वादात्मा एकत्वेन यथानुभूयते तथा द्रष्टा श्रोता वक्तेत्येवं द्रष्टृत्वादिभिर्धमैनानात्वेनानुभूयते, तत्र यथैकत्वेन द्वित्वेन वा विवक्षिते एकवचनं द्विवचनं वा भवति तथा बहुत्वविवक्षायां बहुवचनमपि भवतीति बहुवचनं सिद्धमेव, तथापि सविशेषणे बहुवचननिषेधार्थो वचनारम्भः ॥ फल्गुनी च प्रोष्ठपदा च तस्य, भे सप्तमी । द्वौ बहुवद्वेत्यनुवर्तते । एकस्यां तारायां तु फल्गुनीप्रोष्ठपदशब्दयोर्न प्रयोगः, समुदाये एव तयो रूढत्वात् । फल्गुनी पूर्वा