SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २२६ सिद्धमलघुवृत्तौ [ द्वितीयाध्यायस्य ar अन्तिकान्तिकेऽन्तिकं वा ग्रामस्य ग्रामाद्वा वसति, एवमभ्यासेनेत्यादि । असत्त्व इति किम् ? दूरोऽन्तिको वा पन्थाः ॥ जात्याख्यायां नर्वेकोsसङ्ख्यो बहुवत् ॥ १२१ ॥ जातेराख्याऽभिधा तस्यामेकोऽर्थोऽसङ्ख्यः सङ्ख्यावाचिविशेषणरहितो बहुवद्वा स्यात् । सम्पन्ना यवाः, सम्पन्नो यवः । जातीति किम् ? चैत्रः । आख्यायामिति किम् ? काश्यपप्रतिकृतिः काश्यपः । असङ्ख्य इति किम् ? एको व्रीहिः सम्पन्नः मित्युक्त्वा विभक्तेर्निवृत्तिस्तन्निवृत्तौ गौणादिति निवृत्तं तत्सम्बद्धत्वातस्य । दूरेणेति इदं तदिति सर्वनामप्रत्यवमर्षयोग्यार्थाभिधायकत्वेऽप्येतेषां धर्ममात्रेण प्रयोगादसत्त्वरूपार्थाभिधायकत्वं न विरुध्यते तथात्र ग्रामशब्दादारादर्थैरिति वा पचम्यां पक्षे शैषिकी षष्ठी ॥ जातेराख्या तस्याम्, नवा, एकः, न विद्यते सङ्ख्या यस्य, बहुरिव बहुवत् || जातिरेकोऽर्थस्तदभिधाने एकवचनमेव प्राप्तमत इदमारभ्यते । जातेः प्राधान्येनाऽऽख्यायामित्यर्थः । भावप्रत्ययं विना प्राधान्येन जातिबोधे यवादिशब्दानां साधुत्वे इदमेव सूत्रं प्रमाणम् । बहुवदित्यतिदेशेन जातिरूपार्थस्यैकस्यापि बहुवद्भाव उक्तः, तथा च नाम्नः प्रथमैकद्विबहाविति बहुवचनं भवति, एकत्वञ्च बहुवचनार्थः । जात्यर्थस्य बहुवद्भावे सति सम्पन्नादीनि तद्विशेषणान्यपि सामानाधिकरण्याद्यवादिशब्दोपात्ते जात्यर्थे वर्तन्त इति तेभ्योऽपि बहुत्वाश्रयं बहुवचनम् । जातिशब्दस्य बहुवद्भावे तु यवशब्दादेव बहुवचनं स्यान्न तु सम्पन्नशब्दात् । चैत्र इति नायं शब्दो जातिवचनः, अपि तु संज्ञावचनः । कश्यं मद्यं पिबतीति कश्यपस्तस्यापत्यं काश्यपः, यदा काश्यपप्रतिकृतिः काश्यपशब्देनोच्यते, तदा काश्यपशब्दस्य जातिशब्दत्वेऽपि सम्प्रति प्रतिकृतिवाचकत्वेन जातिवाचकत्वाभावान्न तदा बहुवद्भावः । एको त्रीहिरित्यत्र व्रीहेर्जातिवाचित्वेऽपि सङ्ख्यावाचि
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy