________________
द्वितीयपादः ] भवरिपरिष्कारसहितायाम् । २२३ बहुक्षीरा, धावन्तो यातां यात्सु वा शीघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा। अविभाग इति किम् ? मैत्रश्चैत्रात्पटुः ॥ क्रियामध्येऽध्वकाले पञ्चमी च ॥११० ॥ क्रिययोर्मध्ये यावध्वकालौ तद्वाचिभ्यां पञ्चमीसप्तम्यौ स्याताम् । इहस्थोऽयमिष्वासः क्रोशाकोशे वा लक्ष्यं विध्यति, अद्य भुक्त्वा मुनियहात् व्यहे वा भोक्ता ॥ अधिकेन भूयसस्ते ॥ १११ ॥ अधिकेनाल्पीयोवाचिना योगे भूयोवाचिनस्ते सप्तमीपञ्चम्यौ स्याताम् । अधिको द्रोणः खायों खार्या
प्रतीतिः । ब्रादिपदश्च सामान्यरूपेण क्षत्रियतदितरनरादिघटितसमुदायोपस्थापकम् । उदाहरणचतुष्टयं क्रमेण जातिगुणक्रियासंज्ञाभिप्रायेण विज्ञेयम् । निर्धारणस्य विभागरूपत्वाद्यस्य हि यतो विभाग. स्तस्य तदपेक्षयावधिरूपत्वेनापादानत्वात्पञ्चम्यां प्राप्तायां यत्राविभागो. ऽपि तत्र तदपवादो योगः ॥ क्रिययोर्मध्यं तस्मिन् , अध्वा च कालश्च तस्मिन् , पञ्चमी च ॥ चकारात्सप्तमी ग्राह्या । इहस्थोऽयमित्यादि, इह धानुष्कावस्थानमिषुमोक्षो वा एका क्रियाऽपरा च लक्ष्यव्यधस्तन्मध्ये क्रोशोऽध्वा, तस्मात्सप्तमी पञ्चमी च । स्वानन्तरदेशवृत्तित्वं विभक्त्यर्थः, एतद्देशाधिकरणकस्थित्याश्रयधानुष्ककर्तृकमेतद्देशानन्तरक्रोशानन्तरस्थितलक्ष्यकर्मकन्यधनमिति बोधः । एवमद्य भुक्त्वेत्यत्र स्वानन्तरकालवृत्तित्वं विभक्त्यर्थः, एतदिवसाधिकरणकभोजनोत्तरकालिक एतदिवसानन्तरद्व्यहानन्तरकालवृत्तिभोजनाश्रयो मुनिरित्यर्थः ॥ अधिकेन, भूयसः पञ्चमी, ते प्रथमाद्वि. वचनम् । अधिरूढेऽर्थेऽधिकशब्दस्य निपातः । ते इति सप्तमीपञ्चम्यौ । अधिरूढ इति कर्मणि कर्तरि वा क्तो भवति, तत्र यदा कर्तरि तदाधिक इत्यनेनाल्पीयानित्युच्यते, यदा तु कर्मणि तदा भूयान् । तत्र सामर्थ्यादल्पीयोवाचिनाधिकशब्देन युक्ताद्भूयसो भूयोवाचिनो गौणा