________________
२२४
. सिद्धहमलघुश्ती [ द्वितीयाध्यायस्य वा ॥ तृतीयाल्पीयसः ॥ ११२ ।। अधिकेन भूयोवाचिना योगेऽल्पीयोवाचिनस्तृतीया स्यात् । अधिका खारी द्रोणेन ॥ पृथग्नाना पञ्चमी च ।। ११३ ॥ आभ्यां युक्तात्पञ्चमी तृतीया च स्यात् । पृथग्मैत्रात् मैत्रेण वा । नाना चैत्रात्चैत्रेण वा ॥ ऋते द्वितीया च ॥ ११४ ॥ ऋतेशब्देन युक्ताद्वितीया पञ्चमी च स्यात् । ऋते धर्म धर्मात्कुतः सुखम् ॥ विना ते तृतीया च ॥ ११५ ।। विनाशब्देन युक्तात् ते द्वितीयापञ्चम्यौ तृतीया च स्यात् । विना वातं वाताद्वातेन वा ॥ तुल्यार्थस्तृतीयाषष्टयौ ।। ११६ ।। तुल्यार्थैर्युक्तात्तृतीयाषष्ठ्यौ स्याताम् । मात्रा मातुर्वा तुल्यस्समो वा ।। द्वितीयाषष्ट्यावेनेनानश्चः ॥ ११७ ।। एनप्रत्ययान्तेन युक्तानाम्नः सप्तमीपञ्चम्यौ स्याताम् ॥ तृतीया, द्वयोर्मध्ये प्रकृष्टमल्पमल्पीयस्तस्मात् । अधिकेनेति वर्तते। अधिका खारी द्रोणेनेति, भूयोवाच्यधिकशब्देन युक्तादल्पीयोवाचकाद्गौणानाम्नो द्रोणशब्दात्तृतीया बोध्या ।। पृथक् च नाना च पृथग्नाना ताभ्यां पञ्चमी, च । चकारातृतीयायाः परामर्शः । यदा पृथमानाशब्दावन्यार्थौ तदा प्रभृत्यादिसूत्रेण पञ्चमी सिद्धेव, केवलं तृतीयैवानेन विधीयते, यदा स्वसहा. यार्थों तदा पञ्चमी विधानार्थमपीदम् । अन्ये टु द्वितीयामपीच्छन्ति । ऋते, द्वितीया, च । ऋते इत्येतदव्ययं वर्जनार्थे, चकारेण पञ्चमीत्यस्यापकर्षः, द्वितीयां नेच्छन्त्येके । विना, ते प्रथमाद्विवचनम् , तृतीया, च । ते इत्यनेन द्वितीयापञ्चम्योर्ग्रहणम् । द्वितीयां नेच्छन्त्यन्ये ॥ तुल्योऽर्थो येषान्ते तैः, तृतीया च षष्ठी च तृतीयाषष्ठ्यौ । अर्थग्रहणं पर्यायार्थम् । पूर्वसूत्रात्तृतीयामनुवांत्र तुल्यार्थैर्वा इत्येव सूत्रणे कृते, पक्षे शेषषष्ट्या इष्टसिद्धौ तृतीयाषष्ठ्योर्विधानं सप्तमीबाधनार्थम् । तेन गवां तुल्यो गोभिर्वा स्वामी, इह स्वामीश्वरेत्यादिना सप्तमी न भवति ॥ द्वितीया च षष्ठी च द्वितीयाषष्ठयौ,