SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २२२ सिद्धहेमलघुवृत्तौ द्वितीयाध्यायस्य किम् ? गतप्रयोगे मा भूत् । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ? अद्य नश्चतुर्पु गव्यूतेषु भोजनम् ॥ षष्ठी वानादरे ॥१०८ ॥ यद्भावो भावलक्षणं तद्वृत्तरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य, रुदति लोके वा प्रावाजीत् ॥ सप्तमी चाविभागे निर्धारणे ॥१०९॥ जातिगुणक्रियादिभिः समुदायादेकदेशस्य बुद्ध्या पृथक्करणं निर्धारणम् , तस्मिन् गम्ये षष्ठी सप्तम्यौ स्याताम् , अविभागे निर्धार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद्गम्यमाने । क्षत्रियो नृणां नृषु वा शूरः, कृष्णा गवां गोषु वा भवनरूपो लक्ष्यते तस्याध्वनोऽन्तवाचिना सह सामानाधिकरण्यं समानविभक्तिकत्वरूपं वा भवति । पक्षे पूर्वेण सप्तमी, गतेष्विति गम्यम् । अद्य न इति, भोजनं हि भोक्तुर्धर्मः, नावनोऽन्त इति पूर्ववत्सप्तम्येव ॥ षष्ठी, वा, नादरोऽनादरस्तस्मिन् । यद्भावो भावलक्षणमित्यनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी षष्ठी चेति भावः । रुदतो लोकस्य प्राब्राजीदित्यत्र ज्ञाप्यज्ञापकभावः षष्ठीसप्तम्योरर्थः । धातोश्वानादरविशिष्टं प्रव्रजनमर्थः । अनादरश्च लोकविषयक एव, विशिष्टता च सामानाधिकरण्यस्वोत्तरकालिकत्वाभ्याम् । एवञ्च रोदनकर्तृकलोकज्ञा. प्यमनादरविशिष्टं प्रव्रजनमिति बोधः ।। सप्तमी, च, न विभागो. ऽविभागस्तस्मिन् , निर्धारणे । चकारः षष्ठीसमुच्चयार्थः । यतः स्वे. तरेभ्यः स्वघटित समुदायघट केभ्यो व्यावृत्तेन धर्मेण समुदायादेकदेशस्य जातिगुणक्रियादिविशिष्टस्य पृथक्करणरूपं निर्धारणं ततः षष्ठीसप्तम्यौ स्त इति भावः । पृथक्करणञ्च व्यावृत्तधर्मप्रकारकज्ञानविषयीकरणम् । अस्ति व क्षत्रियो नृणां शूर इत्यादौ क्षत्रियत्वादिविशिष्टस्य क्षत्रियघटितनरसमुदायघटकक्षत्रियेतरव्यावृत्तशूरत्वादिवत्तया
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy