________________
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । २२१ उपेनाधिकिनि ॥ १०५॥ उपेन युक्तादधिकिनि वाचिनः सप्तमी स्यात् । उपखार्यां द्रोणः ॥ यद्भावो भावलक्षणम् ॥ १०६ ।। भावः क्रिया, यस्य भावेनान्यो भावो लक्ष्यते तद्वाचिनः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा ॥ १०७ ॥ कुतश्चिदवधेर्विवक्षितस्याध्वनोऽवसानमन्तः, यद्भावो भावलक्षणं तस्याध्वनोऽध्वन एवान्तेनान्तवाचिना सहैकार्थ्यं सामानाधिकरण्यं वा स्यात् , तद्विभक्तिस्तस्मात्स्यादित्यर्थः, गते गम्येऽप्रयुज्यमाने । गवीधुमतः सांकाश्यं चत्वारि योजनानि चतुर्पु वा योजनेषु । गत इति किम् ? दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भूत् । गम्य इति श्रेणिके मगधा इति, ईशेऽत्राधिः । षष्ठीबाधनार्थो योगः ॥ उपेन, अधिकमस्मात्तस्मिन् । उप खार्यां द्रोणः, खार्यपेक्षया द्रोणोऽधिक इत्यर्थः । अत्रोपेत्यनेन द्रोणखार्योरधिकाधिकीभावसम्बन्धो द्योत्यते । यस्मादधिकं ततः सप्तमीति भावः ॥ यस्य भावो यद्भावः, लक्ष्यतेऽनेनेति लक्षणं भावस्य लक्षणं मावलक्षणम् । गोषु दुह्यमानासु गतः, गोर्दोहनक्रिया गमनक्रियाया लक्षणं भवति, नितिकाला हि क्रियाऽनितिकालायाः क्रियायाः कालपरिच्छेदकत्वाल्लक्षणं भवति । वर्तमानकालावच्छिन्नव्यापारजन्यदोहनाश्रयगोनिष्ठज्ञापकतानिरूपितज्ञाप्यताविशिष्टो दोहनाधिकरणकालसम्बन्धविशिष्टव्यापारजन्यगमनाश्रयश्चैत्र इति बोधः । सप्तम्यर्थो ज्ञाप्यज्ञापकभावो दोहनादिक्रियाधिकरणकालसम्बन्धश्च, इत्थम्भूतलक्षणेऽर्थे तृतीयापवादोऽयम् ।। गते, गम्येऽध्वनः षष्ठी, अन्तेन, एकोऽर्थो यस्य स एकार्थस्तस्य भाव ऐकार्यम् , वा । पूर्वसूत्रमनुवर्तते । गवीधुमत इत्यादि, गवीधुमन्निति नगरविशेषः । कुतश्चिदवघेर्गवीधुमत इत्यादिलक्षणाद्विवक्षितस्य इयत्तापरिच्छेदायोपात्तस्याध्वनोऽवसानमन्तः । यस्याध्वनश्चतुर्योजनरूपस्य भावेन गमनरूपेणापरो भावः साकाश्य