________________
सिद्धहेम लघुवृत्तौ
[ द्वितीयाध्यायस्य
"
प्रयोगेऽसाधुशब्देन युक्तात्सप्तमी स्यात् । असाधुमैत्रो मातरि । अप्रत्यादाविति किम् ? असाधुमैत्रो मातरं प्रति परि अनु अभि वा ।।' साधुना ॥ १०२ ॥ अप्रत्यादौ साधुशब्देन युक्तात्सप्तमी स्यात् । साधुमैत्रो मातरि । अप्रत्यादावित्येव ? साधुर्मातरं प्रति परि अनुभ वा ॥ निपुणेन चार्चायाम् ॥ १०३ ॥ निपुणसाधुशब्दाभ्यां युक्तादप्रत्यादौ सप्तमी स्यादर्चायाम् । मातरि निपुणः साधुर्वा । अर्चायामिति किम् ? निपुणो मैत्रो मातुः मातैवैनं निपुणं मन्यत इत्यर्थः । अप्रत्यादावित्येव ? निपुणो मैत्रो मातरं प्रति परि अनु अभि वा । स्वेशेऽधिना ॥ १०४ ॥ स्वे ईशितव्ये ईशे च वर्त्तमानादधिना युक्तात्सप्तमी स्यात् । अधि मगधेषु श्रेणिकः, अधि श्रेणिके मगधाः || प्रत्यादिरप्रत्यादिस्तस्मिन् असाधुना । प्रति परि अनु अभि इत्येते एव प्रत्यादयः । असाधुमैत्रो मातरीति, नात्र मातृविषयस्य साधुत्वस्य निषेधस्तथा च सति प्रथमं मात्रा साधोरन्वये उत्तरसूत्रेणैव सप्तमी सिद्धा भवेत्, किन्त्वन्तरङ्गत्वात्प्रथमं साधुशब्देन नञ्समासे कृते ततो मातृसम्बन्धः, एवोत्तरसूत्रेण सप्तमी न सिद्ध्यतीति वचनम् । नन्वभियोगे लक्षणवीपस्येत्यनेन प्रत्यादियोगे च भागिनीत्यनेन द्वितीयाया अभिधानात्सप्तमी न भविष्यतीति, अप्रत्यादाविति व्यर्थ -- मिति चेन्न, असाधुशब्दाभावेऽपि द्वितीयायाश्चरितार्थत्वेन प्रत्यादियोगेसाधुपदसमभिव्याहारे सप्तमीप्रसङ्गादतस्तद्वद्युदासाय तद्ग्रहणम् ॥ साधुना । अप्रत्यादावित्यनुवर्तते । उत्तरसूत्रेऽर्चायां सप्तमीविधानातत्वाख्यानेऽयं विधिः || निपुणेन, च, अर्चायाम् । चशब्देन साधुनेत्यस्य समुच्चयः । अप्रत्यादावित्यभिसम्बध्यते । षष्ठद्यपवादः । मातरि निपुण इति, मातरि सुष्ठु वर्तते इत्यर्थः, मात्रादेः प्रशंसा गम्यत इति तद्योगे मातृशब्दात्सप्तमी || स्वश्च ईशश्च स्वेशस्तस्मिन्, अधिना । अधिमगधेषु श्रेणिक इति, अत्र ईशितव्येऽधिः । अधि
1
२२०
·