________________
द्वितीयपादः ] अवरिपरिष्कारसहितायाम् । २१९ पतिर्दायादः साक्षी प्रतिमः प्रसूतो वा ।। व्याप्ये क्तेनः ॥ ९९ ॥ ताद्य इन् तदन्तस्य व्याप्ये सप्तमी नित्यं स्यात् । अधीतमनेन, अधीती व्याकरणे, इष्टी यज्ञे । तेन इति किम् ? कृतपूर्वी कटम् ॥ तयुक्त हेतौ ॥ १०० ॥ तेन व्याप्येन युक्ते हेतौ वर्तमानात्सप्तमी स्यात् । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति सीग्नि पुष्कलको हतः ॥ १॥ तद्युक्त इति किम् ? वेतनेन धान्यं लुनाति ॥ अप्रत्यादावसाधुना ॥१०१ । प्रत्यादेरयोगे न भवति, यथा ग्रामस्य राजा, ग्रामस्य पतिरित्यादि । व्याप्ये, क्ताद् इन् क्तेन् तस्य ॥ नवेति निवृत्तं व्याप्योपादानात् , तेन हि अधिकारभेदः, पृथग्योगादिति वा । क्तप्रत्ययान्ताद्य इन् तदन्तस्ये. त्यर्थः । इष्टादेरिति सूत्रेणेष्टादिभ्य कान्तेभ्य इष्टमनेनेत्याद्यर्थे विहितो यस्तद्धित इन् तदन्तस्य व्याप्ये सप्तमी भवति । अधीती व्याकरणे, अत्र भावे कप्रत्यये, तत इष्टादेरिति कर्तरि इन्कृते, पश्चाद्गौणभूतक्रियया सम्बध्यमानं व्याकरणमनभिहितं कर्मेति कृतपूर्वी कटमितिवद्वितीयात्र प्राप्ता, तदपवादोऽयम् । इष्टो यज्ञोऽनेनेति इष्टी यज्ञे ॥ तेन व्याप्येन युक्तस्तद्युक्तस्तस्मिन् , हेतौ । हेतुशब्दो निमित्तपर्यायोऽपि विशिष्ट निमित्तमत्र बोधयति । निमित्तमात्रार्थत्वे तु दात्रेण धान्यं लुनातीत्यादौ दात्रादपि सप्तमी स्यात् । न चोपपदविभक्तेः कारकविभक्तिर्बलीयसीति न्यायेन न दात्रादेः सप्तमीति वाच्यम् , तद्युक्त हेतावित्यस्यापि कारकश्रुत्या कारकविभक्तित्वात् , यत्र कारकगन्धोऽपि नास्ति, यथा शक्तार्थवषडादिभिर्योगे चतुर्थीत्यादौ सैवोपपदविभक्तिः, तस्माद्यदर्थः क्रियारम्भस्तदेवात्र विशिष्टं निमित्तं हेतुशब्दाभिधेयमभिप्रेतं फलमिति यावत् । हेतौ तृतीयायां प्राप्तायां सप्तमी विधीयते। वेतनेन धान्यं लुनाति, नात्र धान्यवेतनयोसंयोगोऽवयवावयविभावो वा ॥ प्रतिरादिर्यस्य स प्रत्यादिः, न