________________
२१८
सिमली
[ द्वितीयाध्यायस्प
नवा सुजधैः काले ॥ ९६ ॥ सुचोऽर्थो वारो येषां तत्प्रत्ययान्तैर्युतात्कालेऽधिकरणे वर्त्तमानात्सप्तमी वा स्यात् । द्विरहि अहो वा भुङ्क्ते, पञ्चकृत्वो मासे मासस्य वा भुङ्क्ते । काल इति किम् ? द्विः कांस्यपात्र्यां भुङ्क्ते ॥ कुशलायुक्तेनाऽऽसेवायाम् ॥ ९७ ॥ आभ्यां युक्तादाधारवाचिनः सप्तमी वा स्यात्, आसेवायां तात्पर्ये । कुशलो विद्यायां विद्याया वा, आयुक्तस्तपसि तपसो वा । आसेवायामिति किम् ? कुशलश्चित्रे, न तु करोति, आयुक्तो गौः शकटे, आकृष्य युक्त इत्यर्थः ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ॥ ९८ ॥ एभिर्युक्तात्सप्तमी वा स्यात् । गोषु गवां वा स्वामीश्वरोऽधि -
•
1
"
मेव तत् ॥ नवा, सुचोऽर्थो येषान्तैः काले ॥ सप्तमी अधिकरणेइत्यनुवर्तते, एवमग्रेऽपि । द्विरिति द्वित्रिचतुरः सुच् प्रत्ययः ॥ पचकृत्व इति पञ्चवाराऽस्य, 'वारे कृत्वस् ' । पक्षे शेषे षष्ठी । द्विःकां- . स्यपात्र्यामिति, कंसायेदं कंसीयं तस्य विकारः कांस्यम्, अत्र पात्रमधिकरणं न कालः | आधारत्वस्याविवक्षायां षष्ठीसिद्धौ नियमार्थमिदम् । सुजर्थैर्योगे काले एव वा सप्तमी भवतीति नियमात्प्रत्युदाहरणेष्वाधारसप्तम्येव न तु षष्ठी ॥ कुशलश्चायुक्तश्च तेन, आ समन्तात्सेवनमासेवा तस्याम् ॥ कुशलो निपुणः, आयुक्तो व्यापृतः । पक्षेऽधिकरणत्वाविवक्षायां शैषिकी षष्ठी। आसेवाशब्दस्तात्पर्येऽर्थे रूढः, तात्पर्यश्च तदेकव्यापारता । प्रत्युदाहरणेऽधिकरणे इत्येव नित्यं सप्तमी, पक्षे, आधारत्वस्याविवक्षायां विकल्पे सिद्धेऽनासेवायामाधारत्वाविवक्षानिवृत्यर्थं वचनम् ॥ स्वामी च ईश्वरश्चाधिपतिश्च दायादश्च साक्षी च प्रतिभूश्च प्रसूतश्च तैः ॥ पक्षे शैषिकी षष्ठी, अधिकं पतिरधिपतिः, अधिकश्चासौ पतिश्चेति वा । ददातीति दायः, दायमा दत्ते इति दायादः । स्वामीश्वराधिपतीति पर्यायोपादानात् पर्यायान्तर