________________
द्वितीयपादः ]
अवचूरिपरिष्कारसहितायाम् ।
वा स्यात् । मयूरस्य मयूरेण वा नृत्तम् ॥ अकमेरुकस्य ॥ ९३ ॥ कमेरन्यस्योकप्रत्ययान्तस्य कर्म्मणि षष्ठी न स्यात् । भोगानभिलाषुकः । अकमेरिति किम् ? दास्याः कामुकः || एष्यहणेनः ॥ ९४ ॥ एष्यत्यर्थे ऋणे च विहितस्येनः कर्म्मणि षष्ठी न स्यात् । ग्रामं गमी आगामी वा, शतं दायी । एष्यदृणेति किम् ? साधुदायी वित्तस्य ॥ सप्तम्यधिकरणे ॥ ९५ ॥ अधिकरणे एकद्विबहौ यथासङ्ख्यं ङ्योस्सुपा सप्तमी स्यात् । कटे आस्ते दिवि देवाः, तिलेषु तैलम् ॥ भावे नपुंसके तस्यैव विधानात् । नृत्तमिति भावे क्तः, अत्र कर्तरीति षष्ठी प्राप्ता तस्याः ' तयोरसदाधार' इति नित्यनिषेधे प्राप्ते विकल्पोऽयम् ।। न कमिरकमिस्तस्य, उकस्य । न कर्मणीति च वर्तते, एवमग्रेऽपि, उकस्येत्यकमेर्विशेषणम्, विशेषणमन्त इति तदन्तविधिः । अभिलाषुक इति ' लषपतपद' इति ताच्छीलिक उकण्प्रत्ययः ।। एष्यच्चर्णश्च एष्यदृणे, एध्यदृणयोः इन् तस्य ॥ इन इति इणिनोर्प्रहणम् । निरनुबन्धस्येनो ग्रहणेऽपि निरनुबन्धग्रहणे न सानुबन्धस्य ग्रहणमिति न्यायोऽत्र न प्रवर्तते, निरनुबन्धस्येनः ऋणेऽविधानात् सूत्रे ऋणग्रहणेन णिनो ग्रहणस्यावश्यकत्वाच्च । ग्रामं गमीत्यत्र वत्र्त्स्यति गम्यादिरिति भविष्यति इन्, आगामीत्यत्र आङव णिदित्यौणादिको णिन्, शतं दायीत्यत्र णिन् चावश्यकाधमर्ण्य इति ऋणे णिन् । साधुददातीति साध्ये णिन् प्रत्ययः । सप्तमी, अधिक्रियतेऽनेनेत्यधिकरणं तस्मिन् ॥ गौणान्नान्नः, एकद्विबहाविति च वर्तते । कटे आस्ते, औपश्लेषिकमधिकरणं कटः, दिवि देवाः, वैषयिकमधिकरणं द्यौः, तिलेषु तैलमभिव्यापकमधिकरणं तिलानि । अधिकरणसप्तम्या अधिकरणत्वशक्तिमानर्थः सा च शक्तिः कर्तृकर्मद्वारा क्रियाश्रयनिष्ठा । लोके द्रव्यगुणक्रियाविषयमधिकरणम्, अत्र तु क्रियाविषय
"
२८
.२१७